पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२७७

पुटमेतत् सुपुष्टितम्
246
श्रीसरस्वतीविलासे

मूल्ये त्वेवं विक्रयी गृहीत्वा ऋणशेषमृणी दानाधिकारिणि कदाचिदागते ततो गृह्णीयात् । अनागते तु मास्तु इत्याद्यमुकवचनं तथैवोह्यमिति । यदा त्वाधातृसुकृतमनधिकृत्य ऋणं गृहीत्वा द्वैगुण्ये जातेऽपि शान्तलाभं धनं न वर्धते । नचाधेराधानान्तरं विक्रयणं वा धनिना कर्तुं न शक्यत इति बुद्ध्या ऋणप्रदानेऽपि विलम्बमेवावलम्बते । यद्वा धनी स्वच्छाशयत्वात्प्र (त्सु) कृताधिमेव गृह्णाति तदाऽऽधमवर्णो न धनं प्रयच्छति तदानीमस्य राज्ञा दाप्य इत्याह याज्ञवल्क्यः--

 चरित्रबन्धककृतं स वृद्ध्या दापयेद्धनम् ।

इति । चरित्रमेव बन्धकं चरित्रबन्धकं चरित्रशब्देन गंगास्नानाग्निहोत्रादिजनितमपूर्वमुच्यते । यत्र तदेवाधीकृत्य यद्द्रव्यमात्मसात्कृतं तत्र तदेव द्विगुणीभूतं दातव्यं नाधिनाश इति । अत्र आधिविषये कत्यायनः--

 आधिं दुष्टेन लेख्येन भुङ्क्ते यमृणिकाद्धनी ।
 नृपो धनं दापयित्वा आधिलेख्यं विनाशयेत् ॥

द्रव्यभोगनिष्पत्त्यर्थं वृद्धिहानिरप्यनुसंधेया । धनप्रदाने बन्धं वा लग्नकं वा गृह्णीयादित्युक्तं । तत्र बन्धस्वरूप मुक्त्वा लग्नकस्वरूपमाह--

 दर्शने प्रत्यये दाने ऋणिद्रव्यार्पणे तथा ।
 चतुष्प्रकारः प्रतिभूश्शास्त्रदृष्टो मनीषिभिः ॥

प्रत्ययो-- विश्वासः । दानं-- ऋणापाकरणार्थमर्थार्पणं । ऋणिनो द्रव्यं ऋणि द्रव्यं । तस्यार्पणं गृहोपकरणादेरर्पणं ।