पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२७८

पुटमेतत् सुपुष्टितम्
247
व्यवहारकाण्डः

चतुष्प्रकारस्वरूपमाह बृहस्पतिः--

 आहैको दर्शयामीति साधुरेषोऽपरोऽब्रवीत् ।
 दाताऽहमेतद्द्रविणमर्पयाम्यपरोऽब्रवीत् ॥

एको-- दर्शनप्रतिभूः । अहमेनं प्रपलायनप्रवृत्तं दर्शयिष्यामीति प्रातिभाव्यं दर्शयिष्य (भज) न्नाह । अपरः-- प्रत्ययः प्रतिभूविशेषस्साधुरवञ्चको मत्प्रत्ययेनास्य धनं देहीति ब्रूते । दानप्रतिभूरयं यदा न ददाति द्रविणं गृहीतं सवृद्धिकं तदा तस्य द्रविणस्य अहं दातेति वदति । अपरः-- ऋणिद्रव्यार्पणप्रतिभूः यदाऽयं गृहीतं धनं न ददाति तदाऽहमेतदीयार्थमर्पयामीति । अयमेव ऋणिप्रतिभूदानप्रतिभुवोर्भेदः । विवादनिर्णयाय दृष्टमप्यदृष्टं वा प्रमाणं यत्र कालव्यवधानेन भविष्यति तत्रापि प्रमाणाय प्रतिभूर्भाव्यः । दासादौ विश्वासाय चोरत्वादिशंकायां प्रतिभूर्भाव्यः । यदाह कात्यायनः--

 दासोपस्थानवादेषु विश्वासश्शपथाय च ।
 लग्नकं कारयेदेवं यथायोगं विपर्यये ॥

विपर्यये-- कार्यव्यत्यासविषये । यथायोगं-- यथासभवं । लग्नकः-- प्रतिभूः । अत्र कात्यायनः--

 दर्शनप्रतिभूर्यस्तु देशे काले च दर्शयेत् ।
 यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ॥

इति । अदर्शने मनः--

 यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः ।
 अदर्शयंश्च तं तस्य प्रयच्छेत्सधनं नृणाम् ॥