पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२७९

पुटमेतत् सुपुष्टितम्
248
श्रीसरस्वतीविलासे

ऋणमत्र सवृद्धिकमिति । प्रतिभूपुत्रदेयत्वे अवृद्धिकमिति स्मरणात् । कात्यायनस्तु विशेषमाह--

 नष्टस्यान्वेषणार्थं तु देयं पक्षत्रयं परम् ।
 यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ॥
 कालेऽप्यतीते प्रतिभूःयदीदं नैव दर्शयेत् ।
 स तमर्थं प्रदाप्यस्स्यादृणे चैवं विधिस्स्मृतः ॥

इति । अत्र पक्षत्रयमिति अवधिभूतकालोपलक्षणार्थं । यथाऽऽह बृहस्पतिः--

 नष्टस्यान्वेषणे कालं दद्यात्प्रतिभुवे धनी ।
 देशानुरूपतः पक्षं मासं सार्धमथापि वा ॥

अतः पक्षत्रयादूर्ध्वं देयमिति नियमार्थं वचनम् । ऋणिद्रव्यार्पणप्रतिभूः प्रमाणकरणे विवादास्पदं धनं दद्यात् । ऋणिन्यप्रतिकूर्वति तद्द्रव्यमर्पयेत् । अभयं-- प्रतिभयोपस्थितौ तत्प्रतीकारं आचरेत् । प्रमाणप्रतिभूः प्रमाणकरणं विवादास्पदं धनं दद्यात् । दास्याद्यपहृतं पुनरलब्धं चेद्विश्वासप्रतिर्भूमूल्यद्वारेण दद्यादित्याद्यास्तत्रतत्र कल्पनीयाः ।

 दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा ।
 न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय ये स्थिताः ॥

यदा दर्शनप्रतिभूः प्रात्ययिकोऽपि वा प्रतिभूर्दिष्टं गतः तदा तयोः पुत्राः प्रातिभाव्यायातं पैतृकमृणं न दद्युः । यस्तु दानाय स्थितः प्रतिभूर्दिष्टं गतः तस्य पुत्रा दद्युः । पुत्रशब्देन पौत्रादीना वृद्धिदानप्रतिषेधेन मूल्यदानप्रतिषेध इत्यवगन्तव्यम् ॥