पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२८

पुटमेतत् सुपुष्टितम्
xxix

 "भारुचिमते पत्नीनां बहुत्वसद्भावे तासामेव विभागः । विज्ञानयोगिमते पत्न्येनियतो विभागो नास्ति, किंतु पुत्रैस्समविभागः पत्नीनाम् । अपरार्कमते पत्नीविभागः पुत्रसमविभागश्च नास्ति" इति मतत्रयं स्पष्टमत्र परामृष्टं स्त्रीणामपि दायभागार्हतां स्थापयितुं प्रवृत्तानामधुनातनानामुपकाराय प्रभवेत् ।

 किंच अर्थिना प्रत्यर्थिना वा उभाभ्यां वा स्वस्वाभिमतः पुरुषः स्वीये निवेदनादिकर्मणि नियुज्यमानः अर्थिनः प्रत्यर्थिनो वा स्थाने स एवेति परिगृह्य प्राड्विवाकादिभिः तथातथा व्यवहारः प्रस्थापनीयः नियुज्यमानेन यथायथा वादः फलिष्यति स एव मूलपुरुषस्येति च स्वीकार्यम् । एवंच निवेदनादौ स्वयमनधिकारिणोऽनुगृहीता भवन्तीति साम्प्रतिकी व्यवहारपथस्थितिः ।

 एषैव च पद्धतिः सरस्वतीविलासे उत्तराधिकारिणः इति प्रघट्टके (पृ80) प्रदर्शिता मुनिवचनोदाहरणैः ।

  इतरोऽप्यभियुक्तेन प्रतिरोधीकृतो मतः ।
  समर्पितोऽर्थिना योऽन्यः परो धर्माधिकारिणि ।
  प्रतिवादी स विज्ञेयः प्रतिपन्नश्च यस्स्वयम् ॥

अत्र अन्यः परः प्रतिवादीति अकल्पादेरुपलक्षणम् । तथाच हारीतः-

 "अकल्पबालस्थविरविषमस्थक्रियाकुलकार्यातिपातिव्यसनिनृपकार्योत्सवाकुलमत्तोन्मत्तप्रमत्तार्तभृत्यानामाह्वानमकार्यम्" इति ।

 यद्यपि इहत्ये उत्तराधिकारिणः इति प्रकरणे अनाधिकारिणः प्रति उत्तराधिकारिणो दर्शिताः । ततश्च यस्य स्वयं निवेदनप्रत्युत्तरदानप्रभृतिष्वस्ति शक्तिः न च प्रतिबन्धः न तस्य स्वीये कर्मणि परस्य नियोजनाभ्यनुज्ञेत्यायाति । महाभियोगेषु तु अकल्पादेरप्याह्वानमस्त्येव । महाभियोगश्च-- मनुष्यमारणस्तेयपरदाराभिमर्शनापेयपानानि ।