पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२९

पुटमेतत् सुपुष्टितम्
xxx

असभ्यवादेष्वप्याह्वानमस्त्येव । ते च-- अभक्ष्यभक्षणकन्यादूषणपारुष्यकूटकरणनृपद्रोहादयः, तथापि न केवलानधिकारिण एव स्वव्यवहारप्रवर्तनाय परप्रेषणाधिकारिण इति निर्णेतुं युक्तम् । वादिप्रतिवादिभ्यां निवेदितानंशान् पृथगुपादाय तयोः वाक्यार्थं परिशोध्य सप्रमाणं परीक्ष्य विमृशता प्राड्विवाकेन अन्यतरस्य जयः स्थापनीयः इति सत्यामपि धर्मतो व्यवहारनिर्णयसरणौ अज्ञजडबधिरमूकमत्तपङ्ग्वन्धादीनां व्यवहारस्थानमागत्य स्वस्वाभीष्टवादप्रस्थापनसामर्थ्यविरहात् तेषां संभवन्त्योऽप्यापदः राज्ञा न परिहृतास्स्युः ॥

 किंच सत्यपि करणपाटवे सत्यामपि वादानिर्वाहशक्तौ बहुतरक्रियाकलापसंरुद्धनिखिलकालस्य पुंसो न धर्माधिकरणमुपागत्य निवेदनपूर्वकं व्यवस्थापनान्तक्षमोऽवसरः, तादृग्विधस्यापि तापसादेः सैवानुपपत्तिः ।

 तथाच एवंविधव्यवहारेषु जनताविपत्परिहाराय यथायथमनुगुणः पुमानेव तत्र तैर्नियुज्यमानः कार्याणि साधयेदिति स्थिते आधुनिकानां प्राड्विवाकपरिषदि वादिप्रतिवादिसहकारपराणां (लायर्-अड्वोकेट्) इति च राज्याङ्गव्यपदिष्टानां प्राड्विवाकीयवादतत्वनिर्णयक्रमसहायकार्यक्रमाणां उपप्राड्विवाकव्यपदेशार्हाणां व्यवहारदर्शनपथे राजपरिकरतया परिग्रहः सनातनधर्मशास्त्रसिद्ध इति सिद्धम् । सत्यानृतविपरीतकरणपाटवधुर्यनियोज्यपुरुषसौलभ्यमात्रमवलम्ब्य तु जनाः शीर्षच्छेदाद्यपि कुर्वाणाः प्रश्नोक्तचातुरीधोरणीभिर्विमोचयन्त्यापद्भ्योऽप्यात्मानं पापिन एवंविधान् राजकीयव्यवहारमार्गानासाद्येति तु न न्यायापराधः, किंतु कलेरेवेत्यन्यदेतत् ॥

 इदन्त्विह सारतश्चिन्तनीयं-- प्रतिज्ञापादादिभिश्चतुर्भिः पादैः प्रस्थापितोऽयं व्यवहारमार्गः ऋज्वाशयप्रजाबहुळे निष्कारणवैरप्रचार