पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२९०

पुटमेतत् सुपुष्टितम्
259
व्यवहारकाण्डः

त्रेभ्यः परं ऊर्ध्वं । ये जाताः तैः प्रपौत्रादिभिरनिप्सृभिर्नदेयमिति । एतच्च विंशतिवर्षादृणादानं पूर्वमयाचितद्रव्यविषयं । याचितं चेद्दातव्यमेव ॥ यथाऽऽह हारीतः--

यावत्स्थितिप्रमाणं स्याल्लिखितं निरपाकृति ।

अपाकरणं नामात्र दृष्टधनप्रवेशलेखनं प्रतिपत्रं साक्ष्यादिसम्यक्स्थले व्यवहारनिवेशनं चेत्येवमादि ॥ अत एव याज्ञवल्क्यः--

लेखस्य पृष्ठेऽभिलिखेद्यद्वा दत्वर्णिको धनम् ।
धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ॥

 यदा-- अधमर्णिकःसकलमृणं दातुमसमर्थः । तदा शक्त्यनुसारेण दत्वा पूर्वकृतलेखस्य पृष्ठे अभिलिखेदेतावन्मया दत्तमिति । उत्तमर्णो वा उपगतं प्राप्तं धनं तस्यैव लेखस्य पृष्ठे दद्यादभिलिखेत् एतावन्मया लब्धमिति स्वहस्तलिखिताक्षरचिह्नितं । यद्वा-- उपगतं प्रवेशपत्रं स्वहस्तलिखितचिह्नितं अधमर्णायोत्तमर्णो दद्यात् । एतच्च पूर्वमेव प्रतिचेदितमपि स्पष्टार्थं प्रसंगादुक्तमित्यपौनरुक्त्यं ॥ ऋणे तु कृत्स्ने दत्ते लेख्यं किं कर्तव्यमित्याह स एव--

दत्वर्णं पाटयेल्लेख्यं शुद्ध्यै वाऽन्यत्र कारयेत् ।

क्रमेण सकृदेव वा कृत्स्नमृणं दत्वा पूर्वकृतलेख्यं पाटयेत्-- भिन्द्यात् । यदा तु दुर्गदेशावस्थितं लेख्यं नष्टं वा तदा शुद्ध्यै-- अधमर्णत्वनिवृत्त्यर्थमन्यल्लेख्यं कारयेत् । उत्तमर्णोऽपि शुद्धिपत्रमधमर्णाय दद्यादित्यर्थः । ससाक्षिक ऋणे कृत्स्नं दातव्यमित्याह स एव--