पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२९२

पुटमेतत् सुपुष्टितम्
261
व्यवहारकाण्डः

पुनःपत्युर्गृहं यायात्सा द्वितीया प्रकीर्तिता ॥
मृते भर्तरि तु प्राप्तान् देवरादीनपास्य वा ।
उपगच्छेत्परं कामात् सा तृतीया प्रकीर्तिता ॥
प्राप्ता देशाद्धनक्रीता क्षुत्पिपासातुरा तु या ।
तवाहमित्युपगता सा चतुर्थी प्रकीर्तिता ॥
अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भुवां ।
ऋणं तयोः पतिकृतं दद्याद्यस्तामुपाश्नुते ॥
या तु सप्तदिनेनैव सापत्या वाऽन्यमाश्रयेत् ।
सा वा दद्यादृणं भर्तुरुसृत्जेद्वा तथैव ताम् ॥
अधनस्य ह्यपुत्रस्य मृतस्यापैति यः स्त्रियम् ।
ऋणं वोढुस्स भजते नैव चान्यधनं स्मृतम् ॥

इति । अत्र धनेति प्रकृत्रधनयुक्तेत्यर्थः स-- एवंविधयोषिद्ग्राहः । ऋणं दाप्यः तदभावे अन्याश्रितद्रव्यः । अन्यं आश्रितमप्राप्तं तद्द्रव्यं यस्य सोऽन्याश्रितद्रव्यः-- स्वगामिधन इत्यर्थः । ततो नञ्समासे तद्विपरीतः । परप्राप्तदायः क्लीवत्वादिदोषैर्दायहरणायोग्यं यो विधीयते स च दाप्य इति । यत्तु रिक्थग्रहाभावे योषिद्ग्राहः योषिद्ग्राहाभावे अन्याश्रितद्रव्यः पुत्रः तदभावे पुत्रपौत्रहीनस्य प्रपौत्रादयो रिक्थिनो यदि स्युः त एव दाप्याः । यदि प्रपौत्रादीनां रिक्थग्रहणं नास्ति तै ऋणं न देयं इत्येवं व्याख्यानम्; "पुत्रहीनस्य रिक्थिन" इत्यत्र रिक्थशब्देन योषिद्ग्राह एवोच्यते ।

ऋणं वोढुस्स भजते नैव चान्य धनं स्मृतम् ।

इति नारदवचनात् ॥ अतश्च योषिद्ग्राहाभावे पुत्रः ऋणं दाप्यः पुत्राभावे योषिद्ग्राह इति परस्परविरुद्धम् । तथा हि-- योषिद्ग्राहाभावे