पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२९३

पुटमेतत् सुपुष्टितम्
262
श्रीसरस्वतीविलासे

पुत्र इत्युक्तेः योषिद्ग्राहस्य मुख्यता पुत्रस्यानुकल्पता भवति "सोमाभावे पूतिकानभिषुणोति" इतिवत् । एवं स्थिते पुत्राभावे योषिद्ग्राह इत्युच्यमाने पूर्वोक्तमुख्यानुकल्पविरोधापत्तेः । अन्योन्यव्याघातः । अपिचैवं सति यदोभौ सन्निहितौ तदा कश्चिदपि दाप्यो न स्यात् । अन्यतराभावमुपजीव्यैवं अन्यतरस्य दापनाभिधानात् । उभयसन्निधौ च अन्यतराभावासंभवात् । अतश्च ऋणापाकरणमेव अपाकृतं भवेत् इत्यभिसन्धाय--

धनस्त्रीहारिपुत्राणां ऋणभाग्यो धनं हरेत् ।
पुत्रोऽसुतः स्त्रीधनिनोस्त्रीहारिधनपुत्रयोः ॥

इति नारदवचनमवलम्ब्य विरोधपरिहारः कृतः । अतश्च व्याख्यानद्वये "पुत्रहीनस्य रिक्थिनः" इति बहुवचनान्तपदमपरार्कैः व्याख्यायते । धनस्त्रीहारिपुत्राः कस्य दाप्या इत्याकांङ्क्षया उत्तमर्णस्य दाप्याः । तत्पुत्रादेः । पुत्राद्यभावे कस्य दाप्या इत्याकाङ्क्षायां "पुत्रहीनस्य रिक्थनः" इति पुत्राद्यन्वयहीनस्य उत्तमर्णस्य यो रिक्थी रिक्थग्रहणयोग्यस्सपिण्डादिः-- तस्य रिक्थिनो दाप्या इति । अत्र 'रिक्थिनः', इति षष्ठ्येकवचनं । एतद्व्याख्यानक्रमं विज्ञानयोगिना पूर्वाचार्येच्छयाऽनुगच्छता अधिक्षेपसमाधानाभ्यां अतिक्लेशमाश्रित्य कृतम् ॥ यत्तु-- पूर्वत्र पुत्रपौत्रैः ऋणं देयमिति पितृकृतर्णापाकरणे क्लैब्यादिदोषराहित्येनाशग्रहण एवार्हाः पुत्राः पौत्राश्चाधिकारिणो दर्शिताः । स्वरसतः पुत्रादिशब्दानामपि कुलपुत्रादि परत्वस्य उचितत्वात् । अत्रेदमाशङ्क्यते-- यदा न सन्ति पुत्रादयः कस्तदीयमृणमपाकुर्यादित्यस्यामाकाङ्क्षायां अन्यान् कर्तॄन् क्रमिकान् निरूपयितुमिदं वचनमारभ्यत इति मदुक्तरीत्या