पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२९७

पुटमेतत् सुपुष्टितम्
266
श्रीसरस्वतीविलासे

यथादत्तं तथैव प्रतिदेयं । "प्रतिदेयं तथैव तत्" इति याज्ञवल्क्यस्मृतेः । अत्र बृहस्पतिः--

ससाक्षिकं रहो दत्तं द्विविधं समुदाहृतम् ।
पुत्रवत्परिपाल्यं तद्विनश्यदनपेक्षया ॥
ददतो यद्भवेत्पुण्यं हैमारूप्याम्बरादिकम् ।
तत्स्यात्पालयतो न्यासं यथैव शरणागतम् ॥
भर्तृद्रोहे यथा नार्याः पुंसःपुत्रसुहृद्वधे ।
दोषो भवेत्तथा न्यासे भक्षितोपेक्षिते नृणाम् ॥
न्यासद्रव्यं न गृह्णीयात्तन्नाशस्त्वयशस्करः ।

इति । अत्र न्यासपदेन उपनिध्यादयः प्रभेदा गृह्यन्ते । रामायणे तु--

पादुके चास्य राज्याय न्यासं दत्वा पुनःपुनः ।

इति । पादुकयोः न्यासत्वकथनं; तथैव प्रतिदेयमिति;

न्यासद्रव्यं न गृह्णीयात्तन्नाशस्त्वयशस्करः ।

इत्यादिधर्माणां तत्र प्रतिपादनार्थमित्यवगन्तव्यम् । तत्र प्रतिप्रसवमाह स एव--

दैवराजोपघातेन यदि तन्नाशमाप्नुयात् ।
ग्रहीतृद्रव्यसहितं तत्र दोषो न विद्यते ॥

 ग्रहीतुरिति शेषः । ग्रहीतृद्रव्यसहितमित्येतस्य उपेक्षाद्यभावनिश्चायकत्वेनोक्तत्वात् ग्रहीतृद्रव्यसत्त्वेऽपि तन्नाशकारणान्तराद्यपेक्षासद्भावे दोषः एवेत्यवगन्तव्यम् । दैवराजग्रहणं ग्रहीतृसमाधेयनिमित्तोपलक्षणार्थं । याज्ञवल्क्यो विशेषमाह--

न दाप्योऽपहृतं तत्तु राजदैविकतस्करैः ।