पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२९८

पुटमेतत् सुपुष्टितम्
267
व्यवहारकाण्डः

जिह्मकारितमिति शेषः । अजिह्मकारिते तु दाप्य एव यथाऽऽह नारदः--

ग्रहीतुस्सह योऽर्थेन नष्टो नष्टस्स दायिनः ।
दैवराजकृते तद्वन्नचेत्तज्जिह्मकारितम् ।

इति । यत आह स एव--

भ्रेषश्चेन्मार्गिते दत्ते दाप्यो दण्ड्यश्च तत्समम् ॥

स्वामिना मार्गिते-- याचिते यदि न ददाति तदा तदुत्तरकालं यद्यपि राजादिभिः भ्रेषो-- नाशः सञ्जातः; तथाऽपि द्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यः राज्ञा च तत्समं दण्ड्यः । अत्र विशेषमाह बृहस्पतिः--

भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत् ।
याच्यमानो न दद्याद्वा दाप्यस्तं सोदयं भवेत् ॥

इति । अत्राह चन्द्रिकाकारः-- नाशे मूल्यद्वारेण दाप्यः अनाशे तु स्वरूपत एव । कृतवृद्धिप्रकरणे सामान्येनोक्तं वृद्धिपरिमाणं नाशे ग्राह्यम् । अदाने तु--

"याच्यमानं न चेद्दद्याद्वर्धते पञ्चकं शतम् "

इति विशषेण तत्रैवोक्तं । वृद्धिपरिमाणमूह्यम् । भेदेनोपेक्षयेति वदन् स्वीयद्रव्येण सहैवोपेक्षया नाशे तु सोदयविधिर्नेति दर्शयति । तेन तत्र "समं दाप्य उपेक्षितः" इति स्मृत्यन्तरविहितमूल्यमात्रमेव देयम् । एवं च याच्यमाना दत्तस्य दैवराजकृतेऽपि नाशे स्थापकाय मूल्यमात्रं देयं प्रत्यर्पणविलम्बमात्रापराधेन सवृद्धिकन्यासदानायोगात् । राज्ञे च