क्रयमूल्यक्रयार्थौ-- क्रेतृविक्रेतृसंशयमूलकौ--
निक्षेपाधरतोऽध्यर्धं त्रिमासात्त्रिगुणं भवेत् ।
अत ऊर्ध्वं विवर्धेत चक्रवृद्धिव्यवस्थया ॥
उपाधिभिस्तु यः कश्चित् परद्रव्यं लभेन्नरः ।
सहसा यस्स हन्तव्यः प्रकाशं विविधैः... ॥
इति । नीचविषयमेतदिति वरदराजः । नीचविषयेऽप्युपनिधिव्यतिरिक्तेति भारुचिः । अत्र विशेषमाह बृहस्पतिः--
ग्रहीताऽपह्नुते यत्र साक्षिभिश्शपथेन वा ।
विभाव्य दापयेन्न्यासं तत्समं विनयं तथा ॥
एतच्च ससाक्षिकविषयं । असाक्षिके रहसि स्थापितं रहस्येव ग्राह्यं । तथा च मनुः--
यो यथा निक्षेपेद्धस्ते यमर्थं यस्य मानवः ।
स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः ॥
दायः-- स्थापनम् । ग्रहो-- ग्रहणं । रहोदत्ते निर्णयमाह बृहस्पतिः--
रहोदत्ते विधौ यत्र विसंवादः प्रजायते ।
विभावकं तत्र दिव्यमुभयोरपि च स्मृतम् ॥
निधिरुपनिधिः । उभयोर्मध्ये एकस्येत्यर्थः । अत्र नारदः--
एष एव विधिर्दृष्टो याचितान्वाहितादिषु ।
शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥
इति । एतेषु याचितादिष्वयं विधिः-- उपनिधेर्यः प्रतिदानादिविधिः स एव वेदितव्यः । याचितं नाम विवाहाद्युत्सवेषु वस्त्रालङ्कारादि याचित्वा नीतं तथैव द्रव्यमनु-- पश्चादन्यस्य हस्ते स्वामिने देहीति निहितं । अन्वाहितन्यासलक्षणं