पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३०५

पुटमेतत् सुपुष्टितम्
274
श्रीसरस्वतीविलासे

सत्रं-- यागः । तत्र यजमानानामेव ऋत्विक्त्वादृत्विजामभावात्तेषामृत्विजां त्वध्वर्युब्राह्मणादिविशेषोपादानेन विहितां दक्षिणां अध्वर्युब्राह्मणादय एव गृह्णीयुः-- समुदितदक्षिणां विभज्य गृह्णीयुरित्यर्थः ।

यस्य कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः ।
स एव ता आददीत भजेरन् सर्व एव न ॥

क्वचित्सर्व एव वा इति पाठः । तच्च अनेककर्तृकदक्षिणाविषयं । तच्च प्रातिस्विकमेव । यथा स्तोत्रदक्षिणाः स्तोत्रकारिण एव छन्दोगा भजेरन् । प्रधानदक्षिणास्त्वंशकल्पनया । तत्र विशेषमाह स एव--

सर्वेषामर्धिनो मुख्यास्तदर्धेनार्धिनोऽपरे ।
तृतीयिनस्तृतीयांशाश्चतुर्थांशास्तु पादिनः ॥

मुख्या-- अध्वर्युब्रह्मादयः । अपरे-- द्वितीयाः प्रस्तोत्रादयः । तृतीयाः प्रतिहर्त्रादयः । चतुर्था ग्रावस्तुदादयः । अर्धिनः पादिनः तृतीयिन इति यौगिक्यस्संज्ञाः । 'अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति' इत्यादिवाक्ये अर्धिनो दीक्षयन्तीति मैत्रावरुणादिष्वर्ध्यादिसंज्ञाश्श्रूयन्ते । ताश्च यौगिक्य इति तद्बलेनोक्तांशकल्पनानियमोऽपि गम्यत इत्यर्थः । अत्र मनुः--

ऋत्विग्यदि मृतो यज्ञे स्वकर्म परिहापयेत् ।
तस्य कर्मानुरूपेण देयोंऽशस्सहकर्तृभिः ॥

सहकर्तृभिः-- सम्भूयकारिभिरित्यर्थः । कर्तृभिस्सह यजमानेन देय इत्यपरे । कर्मणि ऋत्विक्परित्यक्तांशकर्तृभिस्सह देय