पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३०६

पुटमेतत् सुपुष्टितम्
275
व्यवहारकाण्डः

इत्यन्ये । पक्षत्रयेऽप्ययमर्थः-- स्वकर्मैकदेशं कर्तुः या दक्षिणा तस्य चेकान्तरकर्तुश्च दक्षिणाकाले सम्भूयकारिसंघो यजमानो वा तत्तत्कर्मानुसारेणार्पयेदिति । अस्य क्वचिदपवादमाह स एव--

दक्षिणासु च दत्तासु स्वकर्म परिहापयेत् ।
कृत्स्नमेव लभेतांशमन्येनैव तु कारयेत् ॥

अन्येन-- स्वगणवर्तिनां मध्ये प्रत्यासन्नेन । येन केनचिदन्येन कार्यमाणे आध्वर्यवादिसमाख्याबाधापत्तेः । एवमृत्विगन्तरे मृतेऽप्यूह्यम् । अत्र नारदः--

ऋत्विजां व्यसनेऽप्येवमन्यस्तत्कर्म निस्तरेत् ।
लभेत दक्षिणाभागं तस्मात्संप्रतिकल्पितम् ॥

यत्तु बृहस्पतिनोक्तम्--

एवं क्रियाप्रवृत्तानां यदि कश्चिद्विपद्यते ।
तद्बन्धुना क्रिया कार्या सर्वैर्वा सहकारिभिः ॥

इति । यच्च शंङ्खेनोक्तम्-- 'तत्र चेदनुप्रवृत्ते सवने ऋत्विक् म्रियेत तस्य सगोत्रश्शिष्यो वा तत्कार्यमनुपूरयेत् । अथचेदबान्धवस्ततोऽन्यमृत्विजं वृणुयात्, इति । तत्सर्वमवान्तरगणशून्यर्त्विक्कर्तृकयज्ञविषयमिति मन्तव्यम् इति चन्द्रिकाकारः । अत्र विशेषमाह विष्णुः--

 'अथर्त्विजि मृते पश्चादन्यं वृणुयात् । पूर्ववृतस्यैव दक्षिणा' । पश्चादाहूतः किंचिल्लभते चेति । यत्किंचिच्छब्दार्थमाह कौटिल्यः-- अग्निष्टोमादिषु दीक्षणीयाया ऊर्ध्वं याजकोऽवसन्नः; पञ्चममशमंन्य आहूतो लभेत । सोमविक्रयादूर्ध्वं चतुर्थं । प्रवर्ग्योद्वासनादूर्ध्वं तृतीयं । अग्निष्टोमीयादूर्ध्वं अर्धं । प्रातस्सवनादूर्ध्वं पादोनं ।