पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३०७

पुटमेतत् सुपुष्टितम्
276
श्रीसरस्वतीविलासे

माध्यंदिनसवनादूर्ध्वं समग्रं नीतासु दक्षिणासु भवतीति वरदराजः । नर्तकादीनां मध्ये ताळज्ञस्य विशेषमाह बृहस्पतिः--

नर्तकानामेष एव धर्मस्सद्भिरुदाहृतः ।
ताळज्ञो लभतेऽध्यर्धं (अत्यर्धं) गायकानां समांशिनाम् ॥

गायकानां नर्तकानां समांशिनां मध्ये ताळज्ञः इह अत्यर्धं-- अर्धेनाधिकमंशं लभत इत्यर्थः । चोरेषु सम्भूयकारिषु विशेषमाह स एव--

स्वाम्याज्ञया तु यच्चोरैः परदेशात्समाहृतम् ।
राज्ञे दत्वा तु षड्भागं भजेयुस्ते यथांऽशतः ॥
चतुरोंऽशान् भजेन्मुख्यः शूरस्त्र्यंशमवाप्नुयात् ।
समर्थस्तु हरेद्द्व्यंशं शेषास्त्वन्ये समांशिनः ॥

इति । परदेशाद्वैरिदेशादित्यर्थः । दुर्घटदेशादाहृतविषयमेतत् । सुलभदेशादाहरणे कात्यायनः--

परराष्ट्राद्धनं यत्स्याच्चोरैस्स्वाम्याज्ञया हृतम् ।
राज्ञो दशांशमुद्भृत्य विभजेरन् यथाविधि ॥

पूर्वोक्त 'चतुरोंऽशान्' इत्यादिविधिमनतिक्रम्येत्यर्थः ।

तेषांचेत्प्रसृतानां यो ग्रहणं समवाप्नुयात् ।
तन्मोक्षणा(य)र्थं यद्दत्तं तस्य कार्या समक्रिया ।

इति । एतद्वचनं पारिभाषिकेतरविषयं । पारिभाषिकत्वेऽपि स्वभागानुसारेण न भवतीत्येवं परम् ।

इति श्रीप्रतापरुद्रमहादेवमहाराज विरचिते स्मृतिसंग्रहे
सरस्वतीविलासे व्यवहारकाण्डे सम्भूयसमु-
त्थानाख्यस्य पदस्य विलासः