पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३०९

पुटमेतत् सुपुष्टितम्
278
श्रीसरस्वतीविलासे

मद्यपस्य मुखास्वादः चत्वार्येवं समानि च ॥

इनि । अत्राहुः-- कलञ्जस्य निषेवणं आस्वाद एव । मद्यपस्य मुखास्वाद इति तत्सन्नियोगशिष्टत्वात् । केचित्तु कलञ्जं गृञ्जनमित्याहुः । अपरे त्वाहुः-- भवतु वा पातित्यहेतुभूतकळञ्जभक्षणसन्नियोगशिष्टत्वं अदेयदानस्य तावन्मात्रेणास्य पापाधिक्यं नास्ति । प्रायश्रित्तविधिपर्यालोचनयैव पापपरिज्ञानमाहुराचार्या इति । तथाच मनुः अदेयान्यष्टावनुक्रम्य--

यो ददाति स मूढात्मा प्रायश्चित्तीयते नरः ।

इति । प्रायश्चित्तस्वरूपमाह विष्णुः--

जैंह्मे त्रिरात्रिमुपोष्य पञ्चगव्येन शुध्यति ।

इति । तथा च मद्यपस्य मुखास्वादं कृत्वा एकरात्रमुपवासः । मत्या पञ्चगव्यमिति । अदेयदाने कृच्छ्रत्रयमिति । गौतमस्त्वदे यदाने सान्तपनमित्याह । कलञ्जभक्षणे पातित्यं सर्वस्मृतिसिद्धम् । अदेयेषु मध्ये पुत्रकळत्रादीनां अदेयत्वात् तद्दाने प्रायश्चित्तमुक्तं । अतश्च अदेयद्रव्यदानं निषिव्यते । अत्र केचिदाहुः--अदेयद्रव्यदाननिपेधस्सहेतुक एव । न तु निर्हेतुकः । तथा हि--सामान्यद्रव्यं इतरानुज्ञां विना न देयं । तदनुज्ञा चेद्देयमेव । पुत्रदारादिद्रव्यस्य तु दाने कृतेऽपि स्वत्वस्यानपायात् । स्वत्वं मानसिका क्रिया सकल्परूपतया नापैति । किंतु महापातकादिना तद्गतं स्वत्वमपैतीति धनार्जननयसिद्धम् । अत एवाह विष्णुः । 'पुत्रदारादिदाता पतितो भवतीति' दातृशब्दो विक्रेतुरप्युपलक्षकः । तथाच गौतमः-- 'अनापदि पुत्रदारादिदाने षड्वार्षिकं चरेत्' तत्तु दुर्भिक्षका