पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३१०

पुटमेतत् सुपुष्टितम्
279
व्यवहारकाण्डे

लविषयं । समनन्तरकालमेवाह-- द्वादशवार्षिकं चरेत् । यत्तु वसिष्ठेनोक्तं-- आपदि पुत्रं मातापितरौ दद्यातां हरेयातामित्युक्त्वा पुत्रं प्रतिग्रहीप्यन् बन्धूनाहूय राजनि निवेद्य स्वनिवशेनस्य मध्ये अदूरबान्धवमसन्निकृष्टं व्याहृतीभिर्हुत्वाप्रतिगृह्णीयादिति । आपच्छब्दार्थमाह स एव-- पुत्राभाव एव वाऽऽपदिति । वाशब्देन समुच्चयार्थेन दुर्भिक्षकालेऽत्यन्तकुटुम्बभरणाशक्तिस्समुच्चीयते । तथाचापदीति विशेषणं प्रतिग्रहीतुर्दातुरपि समानं । अतो वैदिकत्वादस्य दानस्य पूर्वोक्तं न विरुद्धम् । न्यसास्तु मूलस्वामिना अनुज्ञातो दातव्य एव । अन्यस्य प्रतिश्रुतमपि तदनुज्ञया देयमेव । याचितमपि तथैव । एतच्च सर्वसम्मतं । स्वर्वस्वं तु किमर्थमदेयं ? न पुत्रदारादिवन्महापातकरूपनियतो पायकत्वाभावात् । मानसिक्या तु क्रियया स्वत्वमुदेत्येव । यथा सर्वस्वदक्षिणादौ ऋत्विजां स्वत्वमुदेति । महासाहसादौ दण्डतया गृहीतसर्वस्वे राजस्वत्वमुदेत्येव । किंच विरक्तस्य सर्वस्वत्यागो न निषिद्धः । अतस्तत्त्यागनिषेधे कारणं वक्तव्यम् । अत्र केचिदाहुः-- सर्वस्य त्यागे जीविकाया अनिष्पत्तेः धर्मसाधनस्य शरीरस्यानिर्वाहात् । तन्निर्वाहार्थं सर्वस्य त्यागो न युक्तः । किंतु स्वजीविकार्थं किंचित् गृहीत्वाऽवशिष्टमेव दातव्यं विरक्तानामपीति । तदसंगतम् । विरक्तानां शरीरधारणस्य भिक्षाटनादिजीविकया निष्पादयितुं शक्यत्वात् । ननु सर्वस्वदानस्य विहितत्वे--

आपद्यपि विरक्तौ च सर्वस्वं न प्रदीयते ।

इति हारीतवचनं निरवकाशं स्यात् । अत्र ज्ञापकमप्याहुर्ल