पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३१३

पुटमेतत् सुपुष्टितम्
282
सरस्वतीविलासे

तमृणं च तदीयगृहक्षेत्रादिना निर्वत्य संशोध्य अवशिष्टमस्ति चेद् ग्रहीतव्यं [१]नास्ति चेन्नास्तीति पारिभाषिकः । सच कुत्ताख्य उपचयपदाभिलप्यस्तस्योपचयाख्यपारिभाषिकत्वेनौपाधिकस्वत्वसंक्रमोपाधितया तत्प्रकरणे ऋणादानाख्ये विवादपदे गोप्याद्यधिकारेऽन्तभाव एवास्त्विति चेत्, मैवं, ऋणादानाख्यं विवादपदं शोध्यमोच्यकोटिद्वयावलम्बनेन प्रवृत्तं । शोध्यमबन्धकमृणं । मोच्यं सबन्धकं गोप्याधिप्रकृतिकं । एवं द्विप्रकारमृणादानाख्यं विवादपदं । लोके उपचयापरपर्यायकुत्तारूपस्य शोध्यमोच्यरूपप्रकाराद्वयासम्भवात् । किंच ऋणादाने उत्तमर्णगत उपचयः कुत्तात्मके त्वधर्मणगत इति न तत्रान्तर्भाव औपचयिकस्येति । अपर आहुः-- गोप्याधावन्तर्भावो वाच्य इति । देवदत्तकृतर्णापकरणे जाते प्रकृतविवादे मोचनीयविषयताऽस्ति । किंतु यावज्जीवानुष्ठेयपितृक्रियाकरणस्याधिरूपेण स्वीकारात् तन्मुखेन न विमोच्यत्वं । उपनयनसंस्कारस्याध्यापनक्रियाङ्गत्वेन तन्निवृत्त्या निवृत्तौ प्रवृत्तायां गुरुरभ्युद्धेयः प्रवयाः प्रत्युद्धेय इत्याद्युपनीतधर्माणां यावज्जीवानुवृत्तेः तन्मुखेनोपनयनस्यापि यावज्जीवानुवृत्तिवत्, मैवं । प्रकृतस्य व्यवहारस्याहितद्रव्यविषयत्वाभावात् । प्रत्युत पाक्षिकापचयभारसहितत्वादाधौ तदभावात् । कुत्ताख्यस्यौपचयिकस्य ऋणादानेऽन्तर्भावयितुमशक्यत्वात् । दत्ताप्रदानिकेऽन्तर्भावो न्याय्यः । दत्ताप्रदानिकं चतुर्विधं दानमवलम्ब्यावतिष्ठते । दत्तमदत्तं देयमदेयं चेति दानमार्गश्चतुर्विध इत्युक्तं प्राक् । दत्तं द्विविधं सोपाधिकं निरुपाधिकं चेति । कुत्तात्मकं दानं सोपा



  1. नचेत् मास्त्विति.