पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३१४

पुटमेतत् सुपुष्टितम्
283
व्यवहारकाण्डः

धिकमिति कृत्वा सोपाधिकदत्तरूपत्वेनौपचयिकस्य तत्रेवान्तर्भाव इति रहस्यम् । देवदत्तस्य ऋणापकरणं तदुद्देशप्रसक्तदेवपितृक्रियाकरणं विषयीकृत्य प्रवृत्तमौपचयिकविषयं दत्ताप्रदानिकेऽन्तर्भवति ।

क्रमागतं गृहक्षेत्रं पित्र्यं पैतामहं तथा ।
पुत्रपौत्रवसमृद्धस्य न (ह्य) देयमननुज्ञया ॥

अत्र मनुः--

धर्मार्थ येन यद्दत्तं कस्मैचिद्याचते धनम् ।
पश्चाच्च न तथा तत्स्याददेयं तेन तद्भवेत् ॥

दानार्हमेकविधमाह नारदः--

कुटुम्बभरणदव्यं यत्किंचिदतिरिच्यते ।
तद्देयमुपरुध्यान्यद्दददानस्समाप्नुयात् ॥

अत्र विशेषमाह कात्यायनः--

सर्वस्वं गृहवर्जं तु कुटुम्बभरणादिकम् ।
यद्द्रव्यं तत्स्वकं देयमदेयं स्यादतोऽन्यथा ॥

स्वकं-- स्वार्जितं ।

न दारेषु न पुत्रेषु न बन्धुष्वनपेक्षकाः ।
सर्वकार्येषु पुरुषाः स्वद्रव्ये प्रभविष्णवः ॥

स्वार्जितद्रव्ये प्रभविष्णव इत्यर्थः । व्यासः--

अन्धादिषु शतं दानमनन्तं दुहितुर्भवेत् ।
पित्र्ये शतगुणं दानं सहस्रं मातुरुच्यते ॥
भगिन्यां शतसाहस्रं सोदर्ये दत्तमक्षयम् ।

दक्षः--

मातापित्रोर्गुरोर्मित्रे विनीते चोपकारिणि ।