पण्यस्य क्रीतस्य मूल्यत्वेन दत्तं, कृतकर्मणे भृतित्वेन, तुष्ट्या चारणादिभ्यः, स्नेहात् सुहृद्भ्यः, उपकुर्वते प्रत्युपकाररूपेण, परिणणयार्थं कन्याज्ञातिभ्यः शुल्कत्वेन, यच्च अदृष्टार्थं दत्तं तदेतत्सप्तविधमपि दत्तमेव न प्रत्याहरणीयम् । अत्र बृहस्पतिः--
भृतिस्तुष्ट्या पण्यमूल्यं स्त्रीशुल्कमुपकारिणे ।
श्रद्धानुग्रहसंप्रीत्या दत्तमष्टविधं स्मृतम् ॥
मनुरपि--
मातापित्रोर्गुरौ र्मित्रे विनीते चोपकारिणे ।
दीनानाथविशिष्टेभ्यो दत्तं तु सफलं भवेत् ॥
सौदायिकं समायातं शौर्यप्राप्तं च यद्भवेत् ।
स्त्रीज्ञातिस्वाम्यनुज्ञातं दत्तं सिद्धिमवाप्नुयात् ॥
स्थावरेतु विशेषमाह याज्ञवल्क्यः--
प्रतिग्रहःप्रकाशस्स्यात् स्थावरस्य विशेषतः ।
देयं प्रतिश्रुतं चैव दत्वा नापहरेत्पुनः ॥
कात्यायनः--
स्वेच्छया यःप्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् ।
न दद्यादृणवद्दाप्यः प्राप्नुयात्पूर्वसाहसम् ॥
प्रतिश्रुतस्यादानेन दत्तस्याच्छादनेन च ।
कल्पकोटिशतं मर्त्यः तिर्यग्योनौ च जायते ॥
प्रतिश्रुत्याप्यकर्मसंयुक्ताय न दद्यात् । तथाच हारीतः--
वचसा यत्प्रतिश्रुत्य कर्मणा नोपपादितम् ।
ऋणं तद्धर्मसंयुक्तमिह लोके परत्र च ॥
ऋणवत् प्रतिश्रुतमित्यर्थः । अथ षोडशात्मकमदत्तमित्याह नारदः--
अदत्तं तु भयक्रोधशोकवेगसमन्वितैः ।