पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३२३

पुटमेतत् सुपुष्टितम्
292
सरस्वतीविलासे

तत एव प्रतिग्रहादिना प्राप्तः । दायादुपगतः पित्रादिवासः । अनाकालमृतः दुर्भिक्षे यो दासत्वाय मरणाद्रक्षितः । आहितः स्वामिना अन्तसंग्रहणेनाधी कृतः । ऋणमोचनेन दासत्वमुपगतो ऋणदासः । युद्धप्राप्तः समरे विजित्य गृहीतः । पणे जितः यद्यस्मिन् विवादे पराजितोऽहं भवामि तदा त्वद्दासो भवामीति परिभाव्य यो जितः । तवाऽहंश्च्युः । दास इति स्वयं प्रतिपन्नः । प्रव्रज्यावसितः प्रव्रज्यातश्च्युतः कृतः एतावन्तं कालं त्वद्दास इत्यभ्युपगमं प्राप्तः । भक्तदासः सर्वकालं भक्तार्थमेव दासत्वमुपगतो यः प्रविष्टः । वडवाहृतः वडवा-- गृहदासी तया हृतः तल्लोभेन तामुद्वाह्य दासत्वेन प्रविष्टः । य आत्मानं विक्रीणीते सोऽत्र विक्रेतेत्येवं पञ्चदश प्रकाराः । एवं पञ्चदशानां मध्ये केषांचिद्दासत्वमुक्तिप्रकारमाह नारदः--

तत्र पूर्वश्चतुर्वर्गो दासत्वान्न विमुच्यते ।
प्रसादात्स्वामिनोऽन्यत्र दास्यमेषां क्रमागतम् ॥

पूर्वश्चतुर्वर्गः गृहजातक्रीतलब्धदायादुपगतानां चतुर्णां वर्गः । अन्यस्यापि दासत्वविमुक्तिप्रकारमाह स एव--

विक्रीणीते स्वतन्त्रस्सन् य आत्मानं नराधमः ।
स जघन्यतमस्तेषां सोऽपि दास्यान्न मुच्यते ॥

प्रसादात्स्वामिन इत्येतदत्राप्यनुषज्यते । तदयमर्थः-- गृहजातादयः आत्मविक्रेतृपञ्चमाः स्वामिप्रसादात् दास्यात् मुच्यन्ते नान्यथा । अनाकालभृतादयस्तु स्वामिप्राणरक्षणाद्दास्याद्विमुच्यन्ते । यथाऽऽह नारदः--

यो वैषां स्वामिनं कश्चि (न्मोचये) द्गोपायेत्प्राणसंकटात् । ::दासत्वात्स विमुच्येत पुत्रभागं लभेत च ॥

एषां पञ्चदशविधानां दासानां मध्य इत्यर्थः । एतदुक्तं भवति--