पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३२४

पुटमेतत् सुपुष्टितम्
293
व्यवहारकाण्डः

गृहजातादीनां आत्मविक्रेतृपञ्चमानां दासत्वापनये हेतुद्वयं; स्वामिप्रसादः प्राणसंकटाद्रक्षणं च । अनाकालभृतानां तु स्वामिप्राणरक्षणमेवेति । प्रव्रज्यावसिते विशेषमाह कात्यायनः--

प्रव्राज्यावसितो दासो मोक्तव्यश्च न केनचित् ।

इति । याज्ञवल्क्योऽपि--

प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् ।

प्रव्रज्यावसितः-- सन्यासाद्भ्रष्टः राज्ञो दासः । पार्थिवस्यैव नान्यस्येत्यर्थः ।

राज्ञ एव तु दासस्स्यात्प्रव्रज्यावसितो नरः ।
न तस्य प्रतिमोक्षोऽस्ति न विशुद्धिः कथंचन ॥

इति नारदस्मरणात् । नर इति सामान्यवचनं क्षत्रियवैश्ययोरेव पर्यवस्यति । विप्रस्य दासत्वप्रतिषेधात् । यथाऽऽह कात्यायनः--

प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजातयः ।
निर्वास्यं कारयेद्विप्रं दासत्वं क्षत्रवि(ड्) द्भृगुः ॥

तथा च हारीतः--

द्वावेव कर्मचण्डालौ लोके दूरबहिष्कृतौ ।
प्रव्रज्यापरिवृत्तश्च वृथाप्रव्रजितश्च यः ॥

इति । अत एव कात्यायनः--

अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् ॥

इति । तथाच विष्णुः--

अधिकाधिकद्रव्यदानान्मुच्यते ।

इति । एवमृणदासादीनां ऋणाद्युपाधिनिवृत्तौ दासत्वाद्विमुक्तिरिति न्यायसिद्धोऽर्थः । तथाहि-- दुर्भिक्षे पो (षणे) षितेन कारितो