पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३२५

पुटमेतत् सुपुष्टितम्
294
सरस्वतीविलासे

दासो गोद्वयार्पणाद्विमुच्यते । आहितदासस्त्वाधातृगृहीतर्णे प्रत्यर्पिते सति उत्तमर्णस्य दास्याद्विमुच्यते । ऋणादासस्तु स्वकृतर्णापाकरणाद्विमुच्यतोपणजितरणमाप्तोपगतास्त्रयो दासविशेषाः । स्वनिर्वर्त्याखिलव्यापारनिर्वर्तनक्षमदासान्तरप्रदानाद्विमुच्यन्ते । कृतस्तु दासविशेषो दास्यावधेर्विमुच्यते, वडवाहृतस्तु दासस्संभोगत्यागाद्विमुच्यते इति । दासाभासानाह नारदः--

चोरापहृतविक्रीता ये च दासा हृता बलात् ।
राज्ञा मोचयितव्यास्ते दासत्वं तेषु नेष्यते ॥

यत्तु कात्यायनेनोक्तम्--

तवाहमिति चात्मानं योऽस्वतन्त्रःप्रयच्छति ।
न (समं) स तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तम् ॥

तत्परदासत्वेनास्वतन्त्रविषयम् । केवलास्वतन्त्रत्वे तु दासप्रतिनिधिर्वा दाप्यः स्वयमेव वा दास्यं कुर्यात् । दास्यविमोकप्रकारमाह नारदः--

स्वदासमिच्छेद्यःकर्तुमदासं प्रीतमानसः ।
स्कन्धादादाय तस्यासौ भिन्द्यात्कुम्भं सहाभ्यसा ॥
साक्षताभिस्सपुष्पाभिर्मूर्धन्यद्भिर (वाकि) पाहरेत् ।
अदास इति चोक्त्वा विःप्रा (ङ्मुखस्त) द्रवन्तमथोत्सृजेत् ॥

एतच्च दास्या अपि समानं विधानम् । दास इत्यत्र लिङ्गवचनयोरुद्देश्यतया अविवक्षितत्वात् । विष्णुस्तु विशेषमाह--

 दासेन या परिणीता सा दासीत्वमापद्यत इति । कात्यायनोऽपि--

दासेनोढा च या दासी सापि दासीत्वमाप्नुयात् ।
यस्तद्भर्ता प्रभुस्तस्याः स्वाम्यधीनः प्रभु (र्यतः) स्तयोः ॥