पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३२६

पुटमेतत् सुपुष्टितम्
295
व्यवहारकाण्डः

तयोः-- दासदास्योः । स्वामी प्रभुरित्यनेन दासस्यापि दासपत्न्याश्च तद्धनस्य च प्रभुरित्यर्थादुक्तं भवति । अत एव नारदः--

दासस्य तु धनं यत्स्यात्स्वामी तस्य प्रभुर्मतः ॥

इति । अनेन दासधनस्यापि स्वाम्येव प्रभुरिति मन्तव्यम् । दासत्वविमोकस्य फलमाह बृहस्पतिः--

ततःप्रभृति वक्तव्यस्स्वाम्यनुग्रहपालितः ।
भोज्यान्नोऽथ प्रतिग्राह्यो भवत्यभिमतस्सताम् ॥
दासीसुताश्चये जाताः तस्याः पत्या परेण वा ।
उत्पादको यदि स्वामी न दासीं कारयेत्प्रभुः ॥

इति । व्यासः--

अन्यदीया तु या दासी दास्यन्यस्य तु सा भवेत् ।
शुल्कं दत्वा तु तां गच्छेदगन्ता दास्यमर्हति ॥

यस्तु शुल्कं दत्वा दास्यां अपत्यं उत्पादितवान् तदपत्यं तस्यैव बीजप्राधान्यात् । शुल्कमदत्वैव गच्छति अपत्यं चोत्पन्नं तदपत्यं दासीस्वामिन एवेति भारुचिप्रभृतय आहुः । वरदराजस्तु द्वयोरित्याह--

अतोऽपत्यं द्वयोरिष्टं पितुर्मातुश्च धर्मतः ।

इति वदन् । दास्याधिकारे विशेषमाह नारदः--

वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ।
राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्त्रताम् ।
समवर्णे तु विप्रं तु दासत्वं नैव कारयेत् ॥

तथाच कात्यायनः--

त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् ।