पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३३

पुटमेतत् सुपुष्टितम्
2
श्रीसरस्वतीविलासे

निर्भिन्ननीलमणिगर्भनिकायकायं
नीलाद्रिशेखरमणिं नितरां स्मरामि ।
ज्योतिर्मये वपुषि यस्य सितेतरत्वं
कंजेक्षणस्य गगनात्मतयैव नूनम् ॥ ५ ॥

शिशुं कपटयादवं श्रितजनस्य मायादवं
निषिद्धवृषभासुरं निगमदर्पणं भासुरम् ।
रमाकलितमानसं रयविभग्नभीमानसं
स्मरामि नळिनेक्षणं सरससंविधाने क्षणम् ॥ ६ ॥

पदानतशचीपतिं पशुपतिं दिशा धीवरं
सुरालयशरासनं सुकृति[१]हृद्विहारासनम् ।
विमुक्तविविधामयं विमलचित्तमेधामयं
पुरां समधिकद्विषं पुनरुपैमि शाकद्विषम् ॥ ७ ॥

श्रीवीररुद्रनृपतेः श्रियमातनोतु
नीलाद्रिनाथनिजपादसरोजयुग्मम् ।
यद्योगिभि[२]र्हृदयपङ्कजमध्यभाग
संरोधनादिव समुद्गतरक्तभावम् ॥ ८ ॥

प्रतापश्रीरुद्रं नृपमवतु दुर्गापदयुगं
सरक्तं रक्तौघेः महिषदनुजोरस्स्थलभवैः ।
शुभान्यस्मै दिश्याच्छ्रुतियुवतिसीमन्तसरणि
प्रतोळीसिन्दूरैः परिचयवशेनाऽ[३]रुणचणम् ॥ ९ ॥



  1. हृद्विहारालयम्.
  2. निजहृदम्बुजमध्य
  3. रुणमिदम्.