पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३३८

पुटमेतत् सुपुष्टितम्
307
व्यवहारकाण्डः

तत्र मूलं दर्शनीयं क्रेतुश्शुद्धिस्ततो भवेत् ॥

व्यासः--

मूले समाहृते क्रेता नभियोज्यः कथञ्चन ।
मूलेन सह वादस्तु नाष्टिकस्य तदा भवेत् ॥

अत्र कात्यायनस्तु विशेषमाह--

तदानयनकालस्तु देयो योजनसंख्यया ॥

इति । योजनसंख्यया-- देशविप्रकर्षापेक्षयेत्यर्थः । कालविप्रकर्षादौ प्रतिभूप्रकरणं द्रष्टव्यं । अत्र विशेषमाह व्यासः--

अनुपस्थापयेन्मूलं क्रयं वाप्यविशोधये (य) त् ।
यथाऽभियोऽगं धनिने धनं दाप्योऽयमञ्जसा ॥

मूलं पूर्वविक्रेतारं नाष्टिकं प्रत्याह स एव--

यदि स्वं नैव कुरुते ज्ञातिर्भिनाष्टिको धनम् ।
प्रसंगविनिवृत्त्यर्थं चोरवद्दण्डमर्हति ॥

प्रसंगोऽतिप्रसंगः । अत्राह याज्ञवल्कयः--

नष्टापहृतमासाद्य हर्तारं ग्राहयेन्नरम् ॥

नष्टमपहृतं वा अन्यदीयं क्रयादिना प्राप्य हर्तारं ग्राहयेत् ॥ चोरोद्धरणकारिभिः । अथाविदितदेशान्तरं गतः कालान्तरे वा विपन्नः तदा मूलसमाहरणाशक्तेः क्रेतारमदर्शयित्वैव स्वयमेव तद्धनं नाष्टिकस्य समर्पयेदिति श्रीकररुचिकादय आहुः ॥ विज्ञानेश्वरस्तु-- नष्टमपहृतं वाऽऽत्मीयं द्रव्यमासाद्य क्रेतुर्हस्तस्थं ज्ञात्वा तद्धर्तारं क्रेतारं स्थानपालादिभिर्ग्राहयेत् । देशकालातिपत्तौ-- देशकालातिक्रमे स्थलपालाद्यसन्निधानात्तद्विज्ञापनकालात्पलायनशङ्कयस्वयमेव गृहीत्वा तेभ्यस्समर्पयेदिति व्याख्यातवान् ॥ यदा