पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३३९

पुटमेतत् सुपुष्टितम्
308
श्रीसरस्वतीविलासे

मूलोपस्थाने अशक्तस्सन् दिव्यमङ्गीकरोति तदा दिव्येनैव विनिर्णेयः । यदा तु दिव्येन वा क्रयं न दर्शयति तदा स एव दण्डभाग्भवतीति विज्ञानयोगिमेधातिथ्यसहायदित्या आहुः । चन्द्रिकाकारापरार्कभारुच्यादयस्तु अस्वामिविक्रयविषये दिव्याव (तारो) काशो नाास्तीत्याहुः ॥ निर्णयस्तु राजाज्ञया समन्यूनाधिकत्वेन धनं विभज्यैव निर्णय इति ॥

प्रमाणहीनवादे तु पुरुषापेक्षया नृपः ।
समन्यूनाधिकत्वेन समं कुर्याद्विनिर्णयम् ॥

इति । पुरुषापेक्षया-- नाष्टिकक्रेतृपुरुषयोस्साधुत्वापेक्षया । असहायमेधातिथिप्रभृतीनां तु समन्यूनाधिकत्वेन पुरुषापेक्षया साक्षिपुरुषापेक्षया निर्णयं कुर्यात् । स च प्रकारस्साक्षिप्रकरणोक्तो वेदितव्यः । साक्ष्यादिमानुषाभावे दिव्यमवतरतीत्येवं परमेतद्वचनमित्याहुः । अत्र चन्द्रिकाकारभारुच्यपरार्कादीनां मतमसम्यक् । यत्तूक्तं हारितेन--

प्रकाशं च क्रयं कुर्यात्साधुभिर्ज्ञातिभिस्स्वकैः ।
न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी ॥

इति । तत्तु 'लेख्यं यत्र न विद्यते' इत्यादिवचनसमानार्थं ज्ञेयं । तद्वचनार्थस्तु दिव्यनिरूपणप्रकरणे निरूपितः अत एवावधार्यः ॥

इति श्रीप्रतापरुद्रमहादेवमहाराज विरचिते स्मृतिसंग्रहे
सरस्वतीविलासे व्यवहारकाण्डे अस्वामिविक्र-
याख्यस्य पदस्य विलासः