पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३४०

पुटमेतत् सुपुष्टितम्

अथ विक्रीयासंप्रदानाख्यस्य पदस्य विधिरुच्यते


विक्रीय मूल्यं पण्येन क्रेतुर्यन्न प्रदीयते ।
विक्रीयासंप्रदानं तद्विवादपदमुच्यते ॥

पूर्वप्रकरणे अस्वामिविक्रीते स्वत्वानुत्पत्तेस्तत्परावर्तनीयमित्युक्तं । अत्र तु क्रयात्स्वत्वोत्पत्तावपि तस्य प्रतिबद्धत्वात्परावर्तनीयमिति संगतिः । न च भोग्याधिवत् सोपाधिकत्वेऽपि न ऋणादानान्तःपातित्वमस्य । तत्र भोग्याधौ परिभाषामूलं स्वत्वस्यौपाधिकत्व । अत्र तु अनुशयमूलमित्यनयोर्भेदः । नच दत्ताप्रदानिकेऽन्तर्भावः, दानविक्रययोर्भेदात् । किंच तत्र दत्तस्यादत्तप्रायता अत्र तु न क्रीतस्याक्रीतप्रायता किंतु विक्रीतस्य पर्यावृत्तिरिति भेदः । अत एव वेतनानपाकर्मादौ नान्तर्भावः ।

लोकेऽस्मिन् द्विविधं द्रव्यं स्थावरं जङ्गमं तथा ।
क्रयविक्रयधर्मेषु सर्वं तत्पण्यमुच्यते ॥
षड्विधस्तस्य विबुधैर्दानादानविधिस्स्मृतः ।
गणितं तुलितं मेयं क्रियया रूपतःक्रिया ॥

एतद्व्याख्यानमुद्देशस्थल एवोक्तं अत एवावधार्यं ।

विक्रीय पण्यं मूलेन यः क्रेतुर्न प्रयच्छति ।
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥

क्षयं-- गतभोगादिकमित्यर्थः । स्थावरस्यापि वस्त्रादेः क्षयस्य दातुमशक्यत्वात् तदनुगुणद्रव्यं दाप्यः । जङ्गमस्य द्विपदां चतुष्पदां च तत्कर्मनिमित्तं मूल्यं दाप्यः । यथा क्रयकालगृहीतेन मूल्येन यावत्पण्यं अर्पणकाले अर्घवशादधिकं लभ्यते । स च

309