पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३४२

पुटमेतत् सुपुष्टितम्
311
व्यवहारकाण्डः

दूषितं-- जलादिनेति शेषः । अर्थक्रियाकालो-- दोह्यवाह्यादिपण्यस्य दोहनवाहनादिकालः तस्मिन् पाप्ते सति अदाने वा अग्रहणे वा प्रकृतेनैव दशमं मूल्यभागं प्रदापयेत् । किंतु तमदत्वैव स्वद्रव्यमाप्नुशात् । एवमुक्तधर्मो दशाहात्प्रागर्थक्रियाकालादूर्ध्वं वेदितव्यः । दशाहात्परतस्तु अनुशयो न कर्तव्यः । अनुशयकालस्यातीतत्वात् ।

क्रीत्वाऽप्यनुशयात्पण्यं त्यजेद्दौह्यादि यो नरः ।
अदुष्टमेव काले तु स मूल्याद्दशमं वहेत् ॥
निर्दोषं दर्शयित्वा तु यस्स दोषं प्रयच्छति ।
मूल्यं तद्द्विगुणं दाप्यो विनयं तावदेव च ॥
उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुरेव सोऽनर्थो विक्रीयासंप्रयच्छतः ॥

अत एवाह याज्ञवल्क्यः--

रजदैवोपघातैन पण्ये दोषमुपागते ।
हानिश्च क्रेतुरेवामौ याचितस्याप्रयच्छतः ॥

याचितस्येति वदन् अयाचितस्य विक्रेतुरप्रयच्छतो न हानिरिति दर्शयति । अतश्च 'स्थावरश्च क्षयं दाप्यः' इत्यादि वचनं याचितविषयमिति मन्तव्यम् । नारदस्तु विशेषमाह--

दीयामानं न गृह्णाति क्रीतं पण्यं च यः क्रयी ।
स एवास्य भवेद्दोषो विक्रेतुर्योऽप्रयच्छतः ॥

अप्रयच्छतो विक्रेतुर्यो दोषः अस्य क्रेतुः स एवेत्यर्थः । अत्र विशेषमाह कात्यायनः--

दीयमानं न गृह्णाति क्रीतं मण्यं च यः क्रयी ।