पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३४५

पुटमेतत् सुपुष्टितम्

अथ क्रीत्वाऽनुशयाख्यस्य पदस्य विधिरुच्यते.


क्रीत्वा मूल्येन यत्पण्यं क्रेता न बहुमन्यते ।
क्रीत्वाऽनुशय इत्येतद्विवादपदमुच्यते ॥

पूर्वस्मिन् प्रकरणे विक्रीतस्य परावृत्तिः अत्र तु क्रीतस्येति सङ्गतिः । न चास्य पूर्वत्रान्तर्भावः; क्रीतविक्रीतगतत्वेन भिन्नविषयत्वात्परावृत्तेः । ननु क्रयविक्रययोर्वीवधकलशतुल्यतया परस्परापेक्षत्वाद्वैवधिकं पण्यं युक्तमिति चेत्; सत्यं । 'दशाहोऽनुशयः क्रय' इत्यत्र क्रयशब्दः परिवृत्तिविनिमययोरुपलक्षकः । तत्राप्यनुशयस्य तुल्यत्वात् । यथाऽऽह भारद्वाजः--

सन्धिश्च परिवृत्तिश्च विभागश्च समा यदि ।
आदशाहं निवर्तेत विषमे नववत्सरात् ॥

इति । परिवृत्तिशब्दो विनिमयस्याप्युपलक्षकः । 'सजातीययोर्द्रव्ययोर्विनिमयः । विजातीययोस्तु परिवृत्तिरिति' विष्णुस्मरणात् ।

 न च परिवृत्तेः क्रय एवान्तर्भाव इति वाच्यं; क्रये तु मूल्यं त्रिवर्षफलं; परिवृत्तौ तु स्वतस्तुल्यमेव । यद्यपि रिक्थक्रयादिगौतमसूत्रे परिवृत्तिविनिमययोः परिगणनाभावात् स्वत्वहेतुता नास्तीति प्रतिभाति, तथाऽपि तिलक्रयस्य निषिद्धत्वात् प्रतिग्रहस्यातिदुष्टत्वात् तिलान् दत्वा व्रीह्यदिग्रहणस्थले विनिमयपरिवृत्त्योरिव स्वत्वापादकत्वमिति लोकप्रसिद्धिः ॥ यत्तु 'आधिः प्रणश्येद्द्विगुण' इत्यादौ तिलविनिमयवद्धनद्वैगुण्यं स्वत्वापादकं न भवति । अपि तु क्रयान्तपर्यवसानात्स्वत्वापादकमित्युक्तं ।

314