पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३४६

पुटमेतत् सुपुष्टितम्
315
व्यवहारकाण्डः

तत्तु विनिमयस्य स्वत्वापादकत्वं नास्तीत्येवम्परं न भवति । किंतु तस्मिन् स्थले क्रयान्तपर्यवसानाद्वाचिकादानान्ततया वा स्वत्वापादकत्वं; अन्यत्र तु तिलविनिमयादौ विनिमयपरिवृत्त्योरपि क्रयादीनामिव स्वत्वापादकत्वं लोकप्रसिद्धं नापह्नोतुं शक्यमित्याह भारुचिः । वस्तुतस्तु-- विनिमयपरिवृत्त्योः पारिभाषिक्योः परिभाषया तयोर्वाचीनकदानरूपेण स्वत्वहेतुत्वसिद्धिरस्त्येवेत्युक्तम् तत्रैव ॥ पूर्वस्मिन्प्रकरणे विक्रीयासम्प्रदानता अत्र तु परिवृत्त्यनुशय इति प्रकरणभेदः । क्रीत्वाऽनुशय इति समाख्या तु परिवृत्तिविनिमययोरपि लक्षणयेत्याह भारुचिः । अत्राह नारदः--

क्रेता पण्यं परीक्षेत प्राक्स्वयं गुणदोषतः ।

इति । क्रीत्वाऽनुशयो माभूदिति स्वयं क्रेत्रा प्रागेव क्रयात्पण्यं गुणाढ्यं दुष्टं वेति निर्णयार्थं परीक्षा कर्तव्येत्यर्थः । बृहस्पतिस्तु पण्यदोषगुणविदामन्येषामपि प्रदर्शयेदित्याह--

परीक्षेत स्वयं पण्यं अन्येषां च प्रदर्शयेत् ।

इति । अत्र व्यासस्तु विशेषमाह--

चर्मकाष्ठेष्टकासूत्रधान्यस्य पनसस्य तु ।
वसुकुप्यहिरण्यानां सद्य एव परीक्षणम् ॥

वसुशब्दो हेमवचनः । क्रयशब्दः हेमरूप्यव्यतिरिक्तत्रपुसीसादिवचनः । हिरण्यशब्दो रजतवचनः 'तस्माद्रजतं हिरण्यम्' इति श्रुतेः ॥ अत्र बृहस्पतिः--

परीक्षितं बहुमतं गृहीत्वा न पुनस्त्यजेत् ।

इति । तथा च नारदः--

परीक्ष्याभिमतं क्रीतं विक्रेतुर्न पुनर्भवेत् ।