पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३४८

पुटमेतत् सुपुष्टितम्
317
व्यवहारकाण्डः

सदोषमपि तत्क्रीतं विक्रेतुर्न भवेत्पुनः ॥

अत एव स्वयं परीक्षकः परीक्ष्यैव गृह्णाति । पश्चाद्विसंवादेऽपि न परावर्त्यो व्यवहारः । स्वस्यैव परीक्षकत्वेन स्वापराधात् । तत्राविक्रेयान्याह मनुः--

नान्यदन्येन संसृष्टं विरूपं विक्रयमर्हति ।
न सावद्यं न च न्यूनं न दूरे न तिरोहितम् ॥

अत्र । कात्यायनः--

साधारणं तु यत्क्रीतं नैको दद्यान्नराधमः ।
नादद्यान्न च गृह्णीयाद्विक्रीयाच्च न चैव हि ॥
क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्नेवाह्न्यवीक्षितम् ॥
द्वितीयेऽह्नि ददत् क्रेता मूल्यात्त्र्यंशांशमाहरेत् ।
द्विगुणं तु तृतीयेऽह्णि परतः क्रतुरेव तत् ॥

एतद्द्रव्यानुशयोत्तरकालं द्रष्टव्यं । अपरार्कस्तु-- अयमेवैषामनुशयकाल इत्याह । वस्त्राणामुपभोगवशान्मूल्यत्वं(?)चाह विष्णुः--

 सकृद्धौतस्य नाशे मूल्यादष्टमभागो हीयेत । द्विर्धो तस्य नाशे पादहानिः । त्रिर्धौतस्य नाशे तृतीयांशहानिः । चतुर्धौतस्य नाशे अर्धमूल्यं हीयते । पञ्चमे अर्धादष्टमभागहानिः । षष्ठे त्विच्छातो न शास्त्रत इति । अत्र विशेषमाह विष्णुः--

 अनसां दोह्यानां बलीवर्दादिवाह्यानां सीमोल्लङ्घनेन परावृर्त्तिरिति । अयमर्थः-- समीपग्रामस्थानां दूरग्रामस्थानामपि ग्रामान्तरे क्रीतानां शकटगोमहिषादीनां तज्ग्रामसीमोल्लङ्घने