पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३४९

पुटमेतत् सुपुष्टितम्
318
श्रीसरस्वतीविलासे

व्यवहारस्यापरावृत्तिः । सीमोल्लङ्घनात्प्रागेव शकटादिपरीक्षणं ततः परं नास्तीति । अत्र कात्यायनः--

द्रव्यस्वं पञ्चधा कृत्वा त्रिभागो मूल्यमुच्यते ।
लाभश्चतुर्थो भागस्स्यात् पञ्चमस्सत्यमुच्यते ॥

एतत्कुङ्कुमवाणिज्यविषयम् । 'चतुर्थो भागो लाभः । पञ्चमो भागस्सत्यः कुङ्कुमादाविति' विष्णुस्मरणात् । मूल्यनिर्णये प्रजापतिः--

संविभागे विनिमये क्षेत्रयोरुभयोरपि ।
अनुस्मृतिकृता ताभ्यां कार्यसिद्धिर्भविष्यति ॥
मणिगान्धर्ववीणानां नारीणां मूल्यकल्पना ।
नृपाज्ञयाऽऽपणस्थानां गोभूम्योरुभयेच्छया ।

गान्धर्वा-- हयाः । गोशब्दो महिष्यादीनामुपलक्षकः । राजाज्ञयेति नियमव्यावर्त्यमाह--

न सामन्तैर्न तज्ग्रामैस्तस्य मूल्यं नियम्यते ।

किं तु राज्ञेवैति शेषः । न तज्ग्रामीणैरिति-- तेषां ते पण्यादीनां । ग्रामो ग्रामस्थपुरुषाः । विवादस्वरूपमाह वृद्धयाज्ञवल्क्यः--

इदमस्येति यत्क्रेता विक्रेत्रा सह संवदेत् ।

एतदेव विक्रीतस्य क्षेत्रस्य मूल्यमिति । अत्र विशेषमाह बृहस्पतिः--

यः कश्चिद्वञ्चकस्तेषां विज्ञातः क्रयविक्रये ।
शपथैस्स विशोध्यस्स्यात्सर्ववादेष्वयं विधिः ॥

इति । यथा क्रयस्य स्वत्वापादकत्वं लोकप्रसिद्धं तद्वद्विनिमयपरिवृत्त्योरप्यस्तीत्याह विष्णुः-- 'परिवृत्तिविनिमयौ क्रयवदिति' क्रयेण तुल्यं वर्तते क्रयवत् । यथा क्रयस्स्वत्वापादकः