पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३५

पुटमेतत् सुपुष्टितम्
4
श्रीसरस्वतीविलासे

र्णनम् । पुण्यपुरुषः परमपुरुषादन्यो नास्तीति खलु स एव- वर्णनीयो लीलारसपरिगृहीतविग्रहः, तस्यानन्ता एवावताराः । अतीता वर्तमाना वर्तिष्यमाणा इति तेषामानन्त्यं । अतीतानामवताराणामतीतत्वं न शक्नोति मन्थनः प्रवेष्टुं, एवमेव वर्तिष्यमाणत्वमपि, वर्तमानेषु पुराणपुरुषावतारविशेषेषु भूकान्तासन्तत [१]समार्जितनिखिलसुकृतपरिपाकविशेषे भूपविशेषे विद्विषत्कूररुद्रे प्रतापगजपतिवीररुद्रे गाम्भीर्य समुद्रे सति मम मनो न रोचयते तमतिक्रान्तुम् । अनस्तमेव मृगयते वाचश्चरितार्थयितुम् । अतो लक्ष्मीमहीमहिळाकतया वीररुद्रस्साक्षात्पुराणपुरुषावतारविशेष एवेति तदनुवर्णनमस्माकमनुवर्णनीयमेव तद्वंशाग्रणिनमोमणिरगणनीयभासा विकासतेतराम्--

अस्तीश्वरस्याष्टममूर्तिरेष स्वस्तिप्रदस्सम्प्रति दीप्तयोषः ।
अस्तोदयाद्रीश्वरमस्तकाग्रविस्तारितैकाश्चरणत्खुराग्रः ॥ १. ॥

प्रतापिनां द्वारमसौ प्रतापी प्रतापवस्तु प्रतिमानभूमिः ।
प्रतापरुद्रस्य कुलाग्रगण्यः प्रतापभानुः प्रथमो ग्रहाणाम् ॥ २ ॥

कुलेऽभवन्नंशुमतो नृपालास्तले भुवो दिक्पतितुल्यलीलाः ।
बिलेशयाधीशभुजान्तराळा बलेनलब्धक्षितिचक्रवाळाः ॥ ३ ॥

तदन्वये रामकविप्रसादाल्लब्धप्रभावो रघुनायकोऽभूत् ।
तदात्मजो बाहुजमौळिरत्नमणिस्त्रिलोकीविनुतप्रतापः ॥ ४ ॥

तस्मादसूत सुतमिन्दुमतीन्दुकल्पं
कल्पद्रुमप्रसवकल्पितकल्पभाजम् ।



  1. समूर्जित--A.