पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३५०

पुटमेतत् सुपुष्टितम्
319
व्यवहारकाण्डः

तथा परिवृत्तिविनिमयाविति वतेरर्थः । अयमर्थः-- स्वामी रिक्थक्रयसंविभागेत्यादि गौतमसूत्रं नियमार्थमिति विनिमयपरिवृत्त्योः क्रयान्ततया वाचनिकदानान्ततया वा स्वत्वापादकत्वमिति विष्णुस्मृतेस्तात्पर्यं वर्णयन्ति भारुच्यसहायप्रभृतयः । विज्ञानयोगिवरदराजप्रभृतयस्तु 'सप्त वित्तागमा धर्म्या' इति सप्तसंख्याया अयोगव्यवच्छेदपरत्वाद्विनिमयपरिवृत्त्योरपि पृथक् स्वत्वापादकत्वमिति विष्णुस्मृतेरर्थ इत्याहुः । गौतमसूत्रं तु पुरस्ताद्व्याख्यास्यते । परिवृत्तिविनिमययोस्स्वरूपमाह स एव--

 विजातीययोर्द्रव्ययोरेकं गृहीत्वा एकस्य प्रदानं परिवृत्तिः । सजातीययोर्द्रव्ययोर्विनिमय इति ।

 ननु तिलान् दत्वा तिलग्रहणमेव विनिमयः; स च न संगच्छते । प्रयोजनाभावादिति चेन्नैवं, तिलान् दत्वा कालव्यवधानेन तिलग्रहणं विनिमय इति । यद्वा-- तिलानां बीजत्वार्हाणां बीजत्वेन सम्पादनार्थं तैलजननसमर्थैस्तिलैस्सह विनिमय इति न काचित् क्षतिः । यद्यपि सुवर्णादिकं मूल्यं दत्वा क्षेत्रगृहादि पण्यं गृह्यते । तथाऽपि सा न परिवृत्तिः । मूल्यात्सकाशात्फलाधिक्यात् । 'त्रिवर्षमूलफलकं क्रेयमिति' विष्णुस्मरणात् । यावता मूल्येन क्रेयं क्षेत्रं तन्मूल्यं वर्षत्रयादर्वागेव याति चेत्क्रेयमिति परिवर्तनाद्विजातीयाधिक्ये मूल्याधिक्ये मूल्यसमय (?) एव भवति । विनिमयस्तु तथैवेति तेषां परस्परभेदः । अत्र विशेषमाह भारद्वाजः--

सान्धश्च परिवृत्तिश्च विभागश्च समा (यदि) अपि ।
आदशाहान्निवर्तन्ते विषमे नववत्सरात् ॥