पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३५५

पुटमेतत् सुपुष्टितम्
324
श्रीसरस्वतीविलासे

अत्रापि विशेषमाह कात्यायनः--

पलायिते तु करदे करप्रतिभुवा सह ।
करार्थं करदक्षेत्रं विक्रीणीतुः सभासदः ॥

भारद्वाजस्तु विशेषमाह--

आज्ञाधिस्तत्क्रयश्चैव करे दण्डो विधीयते ।
उभावन्यत्र न स्यातामिति धर्मविदो विदुः ॥

इति । अन्यत्र न स्यातामिति-- आह्वानेऽपि नागता इत्यर्थः । अथोक्तलाभक्रयः ॥

[१]किञ्चिच्च द्रव्यमादाय काले दास्यामि ते क्वचित् ।
नो चेन्मूलमिदं त्यक्तं केदारस्येति यः क्रयः ।
स उक्तलाभ इत्युक्तं उक्तकालेऽप्यनर्पणात् ॥

अतश्च आज्ञाक्रयोक्तलाभक्रयोः औपाधिकस्वत्वात् ज्ञात्यादीनां तत्रानवकाश इत्यनुसन्धेयम् । अनेन न्यायेन ज्ञायते क्रयान्तगोप्याधिप्रभृतिसङ्कराधिक्रयेषु सोपाधिक स्वत्वात् । ज्ञात्यादिकृतो निरोधो नास्त्येवेति मन्तव्यम् । केचित्तु सङ्करादिषु ज्ञात्यादिप्रत्ययेन भाव्यमित्याहुः ।

पूवाह्णे ग्राममध्ये तु ज्ञातिसामन्तसन्निधौ ।
हिरण्योदकदानेन षड्भिर्गच्छति मेदिनी ॥

एतद्धर्मषट्कमध्ये ज्ञातिसामन्तसन्निधिरावश्यकः । 'ज्ञात्यादिप्रत्ययेनैव स्थावरक्रय इष्यत' इत्यादिवचनानु (सारा) रोधात् । पूर्वाह्णग्राममव्ययोस्तु न नियमः । हिरण्योदकदानेनेति तु नियतो धर्मः, भूक्रयस्य निषिद्धत्वात् । अतश्चैतद्धर्मषट्कं सतिसम्भवे अङ्गीकर्तव्यमेव । असम्भवे तु भूक्रये ज्ञातिसामन्तस

  1. किञ्चिद्द्रव्यं सहाय.