पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३५६

पुटमेतत् सुपुष्टितम्
325
व्यवहारकाण्डः

न्निधानात्मकधर्मत्रयमवश्यमङ्गीकर्तव्यमिति भारुचेरभिप्रायः । आधुनिकानां वरदराजप्रभृतीनामपि सम्मतमेतम् । विज्ञानयोगिनस्तु न संमतं । यथाऽऽह विज्ञानयोगी--

 'पूर्वाह्ण इत्यनेन दानकाल उक्तः । ज्ञातीत्येतत् विभक्ताविभक्तत्वनिश्चयार्थमुक्तं पदं । सामन्तपदं तु गृहक्षेत्रादीनां परस्परं सङ्कीर्णत्वफलाभिप्रायं । हिरण्योदकदानेनेत्यादि भूक्रयस्य निषिद्धत्वादिति सर्वमेतद्धर्मषट्कं न नियतं स्वत्वस्य लौकिकत्वादिति' तन्न सहन्ते भारुच्यादयः । स्वत्वस्य लोकिकत्वेऽपि भूक्रयस्य निषिद्धत्वात् तद्दानाङ्गतया धर्मपञ्चकस्य नियतत्वमिति । एतदेव (सष्टीकृतं मतं) सम्यङ्मतम् । अथ क्षेत्रविषये अनुचितमूल्यमाह कात्यायनः--

समवेतैस्तु सामान्तैरभिज्ञैः पापभीरुभिः ।
क्षेत्रारामगृहादीनां द्विपदां च चतुष्पदाम् ॥
कल्पितं मूल्यमित्याहुः भागं कृत्वा तदष्टधा ।
एकभागातिरिक्तं वा हीनं वाऽनुचितं स्मृतम् ॥

तद्धीनमूल्यमनुचितमूल्यं वेत्यभिधीयत इत्यर्थः । हीनमूल्यं सर्वथा [१]प्रत्यावर्तनीयमाह स एव--

समाश्शतमतीतेऽपि सर्वं तद्विनिवर्तते ।
क्रयविक्रयणे क्रय्यं यन्मूल्यं धर्मतोऽर्हति ॥
तत्तुर्ये पञ्चमे षष्ठे सप्तर्मेऽशेऽष्टमेऽपि वा ।
हीनो (ने) यदि विनिर्वृत्ते क्रयविक्रायणे सति ॥
हीनमूल्यं तु तत्सर्वं कृतमप्यकृतं भवेत् ।



  1. प्रत्यावर्तत इत्याह.