पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३६०

पुटमेतत् सुपुष्टितम्
329
व्यवहारकाण्डः

स एव--

निजधर्माविरोधेन यस्तु सामयिको भवेत् ।
सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥

त(अ)त्राह मनुः--

यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् ।
विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥
निगृह्य दापयेदेनं समयव्यभिचारिणम् ।
चतुस्सुवर्णं षण्णिष्कं शतमानं च राजतम् ॥

एतदनुबन्धाल्पत्वे वेदितव्यम् । अनुबन्धाद्यतिशये तु याज्ञवल्क्यः--

गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ।

इति । बृहस्पतिः--

यस्तु साधारणं हिंस्यात् क्षिपेत्त्रैविद्यमेव वा ।
साक्षि(सन्धि)क्रियां विहन्याच्च [१]क्षिप्रं निर्वास्यते पुरात् ॥
अरुन्तुदस्सूचकश्च भेदकृत्साहसी तथा ।
श्रेणीपूगनृपद्विद्चेत् क्षिप्रं निर्वास्यते ततः ।
कुलश्रेणीगणाध्यक्षाः पुरदुर्गनिवासिनः ॥
वाग्धिग्दमं परित्यागं प्रकुर्युः पापकारिणाम् ।
तैः कृतौ यौ स्वधर्मेण निग्रहानुग्रहौ नृणाम् ॥
तद्राज्ञाऽप्यनुमन्तव्यं निसृष्टार्था हि ते स्मृताः ।

वाग्धिग्दममिति द्वन्द्वः । मुख्यानां विवादे विशेषमाह ।



S.VILASA
42
 
  1. सनिर्वास्यस्ततः पुरात्.IIट्विट्च.