पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३६४

पुटमेतत् सुपुष्टितम्
333
व्यवहारकाण्डः

प्रकाशचिह्नान्येतानि सीमायां कारयेत्सदा ।
करीषास्थितुषाङ्गारशर्करास्थिकपालिकाः ॥
सिकतेष्टकगोवालकार्पासास्थीनि भस्म च ।
एतानि कुम्भे निक्षिप्य सीमान्तेषु निखानयेत् ॥

इति । कुम्भ इत्येकवचनमविवक्षितं; कुम्भेष्वित्यर्थः । आदिशब्देन वेणुवल्मीकवर्त्मपुरातनसेत्वादीनां ग्रहणं । कार्पासास्थितुषाङ्गारकार्पासबीजानि । एतेषां प्रयोजनमाह मनुः--

उपचिह्नानि चान्यानि सीमालिङ्गानि कारयेत् ।
सीमाज्ञाने नृणां वीक्ष्य लोके नित्यं विपर्ययम् ॥

विपर्ययज्ञानं निवर्तयेदित्यर्थः । (पात्स्यर्नेधनित्यादीनां) ? सीमानैरास्यनित्यानां स्वरूपं लक्षणं च शास्त्रादेवोक्तम् । तथाच बृहस्पतिः--

ततः पौगण्डबालानां प्रयत्नेन प्रदर्शयेत् ।
वार्धकेन शिशूनां ते दर्शयेयुस्तथैव च ॥

ते-- पौगण्ड बालाः स्ववार्धके शिशूनां दर्शयेयुरित्यर्थः--

एवं परम्पराज्ञाने सीमाभ्रान्तिर्न जायते ।

इति । लिङ्गान्यवलब्य निर्णयाशक्तौ मनुः--

यदि संशय एव स्यात् लिङ्गनामपि दर्शने ।
साक्षिप्रत्यय एव स्यात्सीमा वाद विनिश्चये ॥

अत्र साक्षिणो विशिनष्टि बृहस्पतिः--

आगमं च प्रमाणं च भोगकालं च नाम च ।
भूभागलक्षणं चैव ये विदुस्तेऽत्र साक्षिणः ॥

आगमस्स्वत्वापादकः क्रयादि । प्रमाणं-- दण्डादिना एतावान्