पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३६६

पुटमेतत् सुपुष्टितम्
335
व्यवहारकाण्डः

एतेषां साक्षिणां नियमपूर्वकमेव वक्तव्यमित्याह बृहस्पतिः--

शपथैः शापिताश्चैव ब्रूयुः सीमाविनिर्णयम् ।
दर्शयेयुश्च लिङ्गानि तत्प्रमाणमिति स्थितम् ॥
सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।

इति । इत्यादिनोक्तव्यवस्थातिक्रमेणेत्यर्थः । यदा तु सीमालिङ्गसाक्षिणो लक्षणानि कथं चिदपि दर्शयितुं न शक्नुवन्ति केवलं सीमामेव वदन्ति तान्प्रत्याह मनुः--

शिरोभिस्स्वर्गृहीताग्निस्रन्विणो रक्तवाससः ।
सुकृतैःशापितास्स्वैस्स्वैः नयेयुस्तत्स(स्तांस)मञ्जसम् ॥

यावन्तः सीमालिङ्गसाक्षिणः ते सर्वे रोहितकुकुमस्रन्विणः लोहितवसनाः कुकुलाग्निं शिरसि धारयन्तः सीमानुयायिनो विना चङ्क्रमणेन सीमान्तं प्रदर्शयन्तः तां सीमां समञ्जसं-- सम्यक निर्णयेयुरित्यर्थः । सामन्तादीनां सीमोन्नयने लिङ्गप्रदर्शनाशक्तावयमेव विधिर्ज्ञातव्यः । तत्र विशेषमाह नारदः--

नैकस्समुन्नयेत्सीमां नरः प्रत्ययवानपि ।
गुरुत्वादस्य कार्यस्य क्रियैषा बहुभि(षु)स्स्थिता ॥

अत्रापवादमाह बृहस्पतिः--

ज्ञातृचिह्नैर्विना साधुरेकोऽप्युभयसम्मतः ।
रक्तमाल्याम्बरधरो मृदमादाय मूर्धनि ॥
सत्यव्रतः सोपवासः सीमान्तं दर्शयेन्नरः ।

इति । ज्ञातृचिह्नैस्साक्ष्यादि वनगोचरान्त चिह्नैः । प्रकाशोपांशुर्लिङ्गैर्विना अभावे मृदमादायेति । अग्निविरहितः अपक्वः मृण्मयः कुकुलः । तस्मिन् गणाधिपं कृत्वा तत्र निक्षिप्य आवाहनादि