पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३६७

पुटमेतत् सुपुष्टितम्
336
श्रीसरस्वतीविलासे

षोडशोपचारैः पूजां कृत्वा पश्चाद्दर्वाभिरेकोत्तरसंख्याभिः स्संपूज्य तद्गणेशयुक्तं शिरसि धृत्वा चङ्क्रममाण एव सीमां नयेदिति । बहुना सीमोन्नयने कुकुलाग्निधारिणं चङ्क्रमणं विना मन्दगमनमेकस्य तु तदभाव इति । अत्र प्रत्यर्थिना शिरस्स्थानीय्यतया अनुयातव्यं । अत्र कुद्दालादीनाकट्वादिकं कार्यं । अत्र मनुवचने चङ्क्रमाणानन्तरमेव शुद्धिरिति प्रतिभाति । तन्न, तथाऽऽह कात्यायनः--

सीमा चङ्क्रमणे कोशे पादस्पर्शे तथैव च ।
त्रिपक्षपक्षसप्ताहं दैवराजकमिष्यते ॥

इति । यथासंख्यमिति शेषः । ननु सीमोन्नयनवेळायां प्रत्यर्थ्यनुयाने दैववशात् स्खलितं पतनं च भवेत् । कुकूलभङ्गः अन्यैर्वा नाशः । आमुककुलस्य विनायकस्यं वा भिन्नत्वमित्येवं प्रकारदृष्टापचार दर्शने सद्य एव जयव्यवस्था दृश्यते । तद्वत्तदभावेऽपि सद्य एव प्रत्यर्थिनः पराजयव्यवस्थया भाव्यमिति तत्कथं दैवराजकोपयातपरिज्ञानार्थं त्रिपक्षादिप्रतीक्ष्णमिति चेत्सयं क्षेत्रविवादस्य महत्वात् । जयव्यवस्था सद्यपि । तदभावेऽपि सद्यएव प्रत्यर्थिनः पराजयव्यवस्थाऽपि प्रतीक्ष्यैव । त्रिपक्षप्रतीक्षणं एतावत्पर्यन्तं प्रतिधाने च माभूदिति दृष्टप्रमाणेभ्यः तुलादिभ्यः कुकूलधारणं (नास्ती यत्रात्ते तत्रत्रिपक्षप्रतीक्ष्णयुक्तरीत्येति भारुचेरभिप्रायः) भिन्नत्वेन स्मृतमिति ध्येयं । एत्तु भारुचिमतम् ।

 विज्ञानयोगिप्रभृतयश्च कुकूलद्वयमनुलिखितवंतो मृदमादाय मूधनीति वचनं मृत्पिण्डमानपरत्वेन व्याख्यातवन्त