पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३७५

पुटमेतत् सुपुष्टितम्

अथ दायभागाख्यस्य पदस्य विधिरुच्यते.


पुरुषोत्तमभूमींद्रतनयेन महीभुजा ।
प्रतापरुद्रदेवेन दायभागो निरूप्यते ॥

पूर्वप्रकरणे स्त्रीपुंसयोगाख्यो धर्मः प्रतिपादितः । अत्र तु स्त्रीपुंसावेवाधिकृत्य विभागः प्रवर्तत इति तयोरुपजीव्योपजीवकतया सङ्गतिः । न च 'जायापत्योर्न विभागो विद्यते' इति स्मृतेःस्त्रीपुंसयोर्विभाग एव नास्तीति वाच्यं । स्त्रीपूंसयोर्विभागो वक्ष्यते । किंच क्वचित्पुंसां विभागः क्वचित् स्त्रीणां विभागः क्वचित् स्त्रीपुंसयोरिति न कदाचित् क्षतिरिति । दायो नाम पितापुत्रसमुदायद्रव्यं ।

पितृद्रव्यं विभक्तव्यं दायमाहुर्मनीषिणः ।

इति स्मृतेः । विभक्तव्यं-- विभागार्हं । बृहस्पतिरपि--

ददाति दीयते पित्रा पुत्रेभ्यः स्वस्य यद्धनम् ।
तद्दायं . . . . . . . . . . . . . . . . . . . . . ॥

इति । पिता पुत्रेभ्यो यद्धनं ददातीति कर्त्रन्तपितृशब्दोऽध्याहर्तव्यः । एवं दायशब्दः कर्मण्येव व्युत्पन्न इति । अनेन पितापुत्रसमुदायविषयकं द्रव्यं दायमिति सामान्यलक्षणम् । संग्रहकारोऽपि--

पितृद्वाराऽऽगतं द्रव्यं मातृद्वाराऽऽगतं च यत् ।
कथितं दायशब्देन तद्विभागोऽधुनोच्यते ॥

इति । भारुच्यपरार्कादीनां लक्षणं-- विभागार्हं पितृर्द्रव्यं दायमिति । तदेव सम्यक् । धर्मविभागे द्रव्यविभागेऽप्यनुगतेः । न च वाच्यं; धर्माणामग्निहोत्रवैश्वदेवादीनां पितृद्रव्यत्वाभावाद्विभक्तव्यं पितृ

344