पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३७६

पुटमेतत् सुपुष्टितम्
345
व्यवहारकाण्डः

द्रव्यमिति लक्षणस्य तत्रानुगतिर्नास्तीति । 'पैतृकधनं द्विविधं । भोक्तव्यमनुष्ठातव्यं च' इति विष्णुवचनेन भोक्तव्यं क्षेत्रगवादिकं अनुष्ठातव्यमग्निहोत्रादिकमिति अनुष्ठातव्यस्याग्निहोत्रादेः पैतृकत्वस्य प्रतिपादनात् । अत एव याज्ञवल्क्यः--

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वाऽपि श्रौतं वैतानिकाग्निषु ॥

विवाहसम्बन्धादूर्ध्वमप्ययमग्निर्वैवाहिको भवत्येवेत्याह कर्किः । दायकालाहृते वापीत्यनेन अग्निहोत्रादेर्विभाग उक्तः । तच्चाग्निहोत्रादि पैतृकमेवाङ्गीकर्तव्यम् । अन्यथा कर्म स्मार्तविवाहाग्नाविति व्याहन्येतेति । अत्राह कर्किः--

 अभ्रातृकस्य वैवाहिको भ्रातॄणां दायकालाहृत एवेति व्यवस्थेति । अतश्च दायकाले-- दायविभागकाले दायत्वेनाहृते स्वीकृत इति ।

 भारुचिः--अजीवद्विभागे श्रोत्रियागाराज्ज्येष्ठेनानीतमग्निं भ्रातरो विभजेयुः । अत्र पैतृकत्वमग्नेरुपचरितं । जीवद्विभागे पित्रानीतमग्निं विभजेयुः । पित्रानीतः पैतृक इति मुख्यं पैतृकत्वमग्नेः । अस्मिन् पक्षे तथाविधस्यैवाऽग्नेः पित्रा स्वभ्रातृभ्य आनीतत्वादिति । अत्र केचिदाहुः-- दायकालाहृत इत्यस्य अग्निहोत्रस्वीकरणस्य कालान्तरमुक्तमिति । तन्न सहन्ते भारुचिप्रभृतयः । तथा सत्यसंस्कृत्यास्वीकारप्रसङ्गादिति । केचित्तु-- 'दायाद्यकाल एतेषाम्' इति स्मृतेः अग्न्याहरणस्य कालान्तरमुक्तमिति । अत्रेदं तत्वं । वैवाहिकोऽग्निर्लौकिकोऽलौकिकश्चेति मतद्वयं । लौकिकत्वपक्षे प्राकरणिकस्य मन्त्राम्नानस्य वैधदान

S.VILASA.
44