पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३७८

पुटमेतत् सुपुष्टितम्
347
व्यवहारकाण्डः

प्रभृतयः । एतच्च विभागसन्देहनिर्णये प्रपञ्च्यते । असहायविज्ञानयोगिप्रभृतीनां तु यत् स्वामिसम्बन्धादेव निमित्तादन्यस्य स्वं भवति तद्दायशब्देनोच्यते इति; तन्न सहन्ते भारुच्यपरार्कप्रभृतयः-- स्वत्वहेतूनां क्रयादीनां तल्लक्षणासम्भवात् । न च वाच्यः मेवकारेण क्रयादयोच्युदस्यन्ते, क्रेतरि दायादो दायं गृह्णातीति लौकिकप्रयोगाभावादिति । तर्हि स्त्रीणां दायानर्हत्वात् । "तस्मात्स्त्रियो निरिन्द्रिया आदायादीः" इति श्रुतेः । स्त्रीधनं दायशब्दवाच्यं न भवतीति तदुत्तरत्र स्फोर्यते । विभागो नाम द्रव्यधर्मयोरन्यतरस्य पृथक्करणमित्याह भारुचिः । विज्ञानयोगी तु विभागो नाम द्रव्यसमुदायविषयाणामनेकस्वाम्यानां तदेकदेशेषु व्यवस्थानमित्याह । तन्न सहते भारुचिः-- धर्मविभागे तदभावात् । धर्मविभागो नाम धर्ममात्रविभागः । पृथग्वैश्वदेवपञ्चमहायज्ञानुष्ठानं पैतृकादिकरणं । तच्च केषां चिदत्यन्तनिस्स्वानां द्रव्याभावात् धर्मविभागः कर्तव्यः 'विभागे धर्मवृद्धिस्स्यादिति' गौतमस्मृतेः । धर्मवृद्धिकामानां धर्ममात्रविभागो वा कर्तव्यः । अत एव विष्णुः--

 'धर्ममात्रं वा विभजेत्' इति । अत्यन्तनिस्स्वानामिति शेषः । अनेन ज्ञायते परिभाषां विना संकल्पमात्रेणापि विभागसिद्धिः यथा; पुत्रिकाकरणं परिभाषां विना संकल्पमात्रात्सिध्यतीति । द्रव्यवतां तु धनविभागानन्तरमेव धर्मविभागः । 'विभक्ताः भ्रातरः कुर्युर्नाविभक्ताः कथंचन' इति । विभक्तकर्तव्यतया धर्मान् वैश्वदेवादिकानधिकृत्योक्तत्वात् । अतश्च निस्स्वानामितरानुमत्या तदन्तरेणापि धर्मानु