पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३७९

पुटमेतत् सुपुष्टितम्
348
श्रीसरस्वतीविलासे

ष्ठानमेव धर्मविभागः । धनिकानां धनविभागः । एवं विभागस्य द्वैविध्यम् । अत एवोक्तं विष्णुना--

 'द्विविधो विभागः कर्ममूलो दायमूलश्चेति । अत्र-- दायशब्दस्य सामान्यवाचित्वेऽपि विशेषपर्यवसानाद्द्रव्यवाचित्वं । अत्र धर्मशब्देन तत्साधनभूतमग्निहोत्रादिकमुच्यते । धर्मविभागो मनुयाज्ञवल्क्यादिस्मृतिकाराणान्तत्स्मृतिव्याख्यातॄणामसहायमेधातिथिविज्ञानयोगीश्वरापरार्काणां निवबन्धॄणां चन्द्रिकाकारादीनां च सम्मत एव । तथा हि--

वसेयुर्दश वर्षाणि पृथग्धर्माः पृथक्क्रियाः ।
विभक्ता भ्रातरस्तेऽपि विज्ञेयाः पैतृकाद्धनात् ॥

इति धर्मविभाग उक्तः । तत्र स्वयमेवेतरानुमतिं विना दशवर्षपर्यन्तं पृथग्धर्माचरणं विभागः । यथा--

पितृर्द्रव्याविरोधेन यदन्यत्स्वयमार्जितम् ।
मेत्रमौद्वाहिकं चैव दायादानान्न तद्भवेत् ॥

इत्यत्र मैत्रादिव्यतिरेकेण यस्य किमपि नास्ति तस्य मैत्रादि ग्रहणमेव विभागः । तद्वदत्रापीत्यनुसन्धेयम् । अत एवोक्तं मनुना--

एवं(एष) स्त्रीपुंसयोरुक्तो धर्मो यो रति संज्ञितः ।
आपद्यपत्यप्राप्तिश्च दायधर्मं निबोधत ॥

इति । अत्र भारुचिः-- दायधर्मशब्देन दायविभागो धर्मविभागो लक्ष्यत इत्याह । दायविभागं धर्मविभागं मयोच्यमानं निबोधतेति वचनार्थः । यद्यपि दायशब्देन विभागार्हद्रव्य वाचिना धर्मास्याप्युपसंग्रहः । तथाऽपि विस्पष्टार्थमुक्तं दायधर्ममिति । पैतृकाद्धनादिति ल्यब्लोपे पञ्चमी । पैतृकं धन