पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३८०

पुटमेतत् सुपुष्टितम्
349
व्यवहारकाण्डः

मुपजीव्यापि दशवर्षपर्यन्तं पृथग्धर्माचरणं विभागहेतुरेवेति केमुतिकन्यायप्रदर्शनार्थमिति केचित् । अपरे तु पैतृकं धनं विहायेति ल्यब्लोपमाहुः । अन्यथा 'अनुपघ्नन् पितृद्रव्यम्' इत्यादि मन्वादिवचनविरोधादिति । एतदेव सम्यक् । यथाऽऽह निबन्धनकारः । अयमेव पक्षो ज्यायानिति--

यस्मिन् काले यया भङ्ग्या यैरेव क्रियतेऽपि च ।
यादृशस्य यदा यस्य यथा शास्त्रं प्रदृश्यते ॥

इति । यादृशस्य दायस्य पैतृकमातृकादेर्यस्मिन् काले 'मातुर्निवृत्ते रजसि' इत्यादिकं यथा-- समविषमादिभङ्ग्या प्रकारेण यैः-- पितृमातृभगिन्यादिभिर्विभागो वक्तव्य इति । एव चतुर्थेतिकर्तव्यता कलापो यस्मिन्विवादपदे निरूप्यते तद्दायविभागो नामविवादपदं । अत्र संग्रहकारो विशेषमाह--

पितृद्रव्यविभागस्स्याज्जीवन्त्यामपि मातरि ।
न स्वतन्त्रतया स्वाम्यं तस्मान्मातुः पतिं विना ॥
मातृद्रव्यविभागोऽपि तथा पितरि जीवति ।
सत्स्वपत्येषु यस्मान्न स्त्रीधनस्य पतिः पतिः ॥

इति । एकः पतिशब्दः स्वामिवाचकः । अपरो भर्तृवाचकः । अनेन पितरि जीवति द्रव्यविभागो मातरि जीवन्त्यां तद्द्रव्यविभागः पुत्रादेः न कार्य इत्यर्थादुक्तं भवति । तथा च मनुः--

ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरस्सह ।
भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥

इति । अनीशाः-- अस्वतन्त्रा इत्यर्थः । तथा च हारितः-- जीवति पितरि पुत्राणामर्थादानविसर्गाक्षेपेष्वस्वातन्त्र्यमिति' ।