पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३८१

पुटमेतत् सुपुष्टितम्
350
श्रीसरस्वतीविलासे

अर्थादानं-- समक्षोपभोगः । विसर्गो-- व्ययः । आक्षेपो--दासादिपरिजनस्यापराधे शिक्षार्थः । अस्वातन्त्र्यं-- पितुरनुज्ञामन्तरेण स्वेच्छया अर्थादानादावप्रवृत्तिः । धर्मस्वातन्त्र्यमप्येवं पृथगिष्टापूर्तादावप्रवृत्तिः । एवं च पित्रानुज्ञातेन पुत्रेण स्वकर्माग्निहोत्रादि कार्यं; नाननुज्ञातेनेति चन्द्रिकाकारः । अग्निहोत्रादि क्रियास्वननुज्ञातस्यापि पुत्रस्याधिकारोऽस्तीति अपरार्कः । आचाराद्व्यवस्था । व्यवस्थिताचारदूयस्य पूर्वमेवोक्तत्वान्नोक्तं । यत्तु देवलोऽपि--

पितर्युपरते पुत्रा विभजेरन् पितुर्धनम् ।
अस्वाम्ये तु भवेत्तेषां निर्दोषे पितरि स्थितम् ॥

इति । अत्रास्वाम्यमस्वातन्त्र्यमित्यर्थः । पुत्राणां जन्मना स्वातन्त्र्यस्य सिद्धत्वात् । तदुत्तरत्र प्रपञ्च्यते । निर्दोषग्रहणात्पितरि सदोषे स्थितेऽपि सति पुत्राणां तत्स्वातन्त्र्यमिति दर्शयति । तेन पितरि स्थितेऽप्यशक्तत्वादिदोषे सति अर्थादानविसर्गादौ ज्येष्ठस्य स्वातन्त्र्यं । अनुजानां ज्येष्ठाधीनत्वमवगन्तव्यम् । अत एव शङ्खलिखितौ--

 'पितर्यशक्ते तु कुटुम्बस्य व्यवहारान् ज्येष्ठः कुर्यादनन्तरो वा कार्यज्ञस्तदनुमत्येति' । तच्छब्देन ज्येष्ठ उच्यते । तदानीं तस्यैव स्वातन्त्र्यात् । कार्यज्ञपदेनापि तदनन्तरपदस्यानुजोपलक्षणपरत्वं सूच्यते । अशक्तग्रहणं च दीनादेरप्युपलक्षणमिति चन्द्रिकाकारः । अनेनाशक्तग्रहणेन वार्धकादिना पितर्यस्वतन्त्रतामापन्ने तदनिच्छया तद्धनविभागः पुत्राणामिच्छयैव भवतीति ज्ञायते । तथा च नारदः--