पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३८४

पुटमेतत् सुपुष्टितम्
353
व्यवहारकाण्डः

विभागो विद्यते' इति, सत्यं । श्रौतस्मार्ताग्निसाध्येषु कर्मसु तत्फलेषु विभागाभावो न पुनस्सर्वकर्मसु द्रव्येषु वा । तथा हि-- 'जायापत्योर्न र्विभागो विद्यते' इत्युक्त्वा किमिति न विद्यत इत्यपेक्षायां हेतुमुक्तवान् 'पाणिग्रहणाद्धि सहत्वं कर्मसु तथा पुण्यफलेषु च' इति । अस्यार्थः-- हि यस्मात्पाणिग्रहणादारभ्यकर्मसु सहत्वं श्रूयते 'जायापती अग्नीनादधीयाताम्' इति तस्मादाधाने सहाधिकारादाधानसिद्धाग्निसाध्येषु कर्मसु सहाधिकारः तथा-- 'कर्म स्मार्तं विवाहाग्नौ' इत्यादि स्मरणात् विवाहसिद्धाग्निसाध्येषु कर्मस्वपि सहाधिकार एव । ततश्चोभयविधाग्निनिरपेक्षेषु कर्मसु पूर्तेषु जायापत्योः पृथगेवाविकारस्सम्पद्यते । तथा पुण्यादीनां फलेषु स्वर्गादिषु जायापत्योस्सहत्वं श्रूयते । 'दिवि ज्योतिरजरमारभेताम्' इत्यादि । येषु पुण्यापुण्यकर्मसु सहाधिकारस्तेषां फलेषु सहत्वमिति बोध्यं । न पुनः पूर्तानां भर्त्रनुज्ञयाऽनुष्ठितानां फलेष्वपि । ननु द्रव्यस्वामित्वेऽपि सहत्वमुक्तं द्रव्यपरिग्रहेषु च 'न हि भर्तुर्विप्रवासे । नैमित्तिकेदाने स्तेयमुपदिशन्ति' इति । सत्यं; द्रव्यस्वामित्वं पत्न्या दर्शितमनेन न पुनर्विभागाभावः । यस्मात् 'द्रव्यपरिग्रहेषु च' इत्युक्त्वा तत्र कारणमुक्तं भर्तुर्विप्रवासे नैमित्तके अवश्यकर्तव्ये अतिथिभोजनभिक्षाप्रदानादौ हि यस्मात् न स्तेयमुपदिशन्ति मन्वादयस्तस्माद्भार्याया अपि द्रव्यस्वामित्वमस्ति । अन्यथा स्तेयं स्या (दिति)देव । तस्माद्भार्याया अपि भर्तुरिच्छया द्रव्यविभागो भवत्येव न स्वेच्छयेति । अपरार्कमतं तु-- स्त्रीणां दायविभागो नास्त्येव 'तस्मात्स्त्रियो निरिन्द्रिया अदायादीरिति' श्रुतेः । अतश्च पत्युरिच्छानुसारेण पत्नीनामपि धनं दातव्यं । समशब्दस्तु पत्यु-

S.VILASA
45