पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३८९

पुटमेतत् सुपुष्टितम्
358
श्रीसरस्वतीविलासे

इति । जनन्यस्वधना पुत्रैः विभागेंऽशं समं हरेत् ।

अस्वधना-- प्रातिस्विकस्त्रीधनशून्या जननी पुत्रैरेव जीवद्विभागे क्रियमाणे पुत्रांशसममंश हरेदित्यर्थः । अत्र जननीग्रहणं सपत्न्यादेरुपलक्षणार्थं । मातरः पुत्रभागानुसारिभागहारिण्य इति । अस्वधनेति विशेषेणोपादानात् स्वधने विद्यमाने तेनैव जीवनस्य स्वानुष्ठेयस्य च धनसाध्यस्य कर्मणस्सिद्धिसंभवे नांशग्रहणमिति प्रतीयते । स्वधनमात्राज्जीवनधनसाध्यकर्मणोः सिध्यसंभवे स्वधनानामपि न समभागहरणं । किं तु यथोपयोगं न्यूनभागस्यैव हरणमिति गम्यते । तथा विभाज्यराशेरतिबहुत्वे निर्धनानामपि जनन्यादीनां न समांशग्रहणं । किं तु यथास्वोपयोगं समांशन्यूनस्यैवांशस्य हरणमित्ववगम्यते । अस्वधनेति विशेषणस्योपयोगवशादंशग्रहणं पत्न्याः न पुनर्भ्रातृवद्दायभागित्ववशादिति ज्ञापनार्थत्वात् । न तु ससमिति विशेषणस्योपयोगात्; असमांशस्य हरणेऽपि अवैपर्थ्यात् । अजीवद्विभागस्थले पतीच्छया पत्नीनामधिकांशस्यापि दातुमर्हत्वादित्युक्तं प्राक् । अस्मिन्नजीवद्विभागस्थले भ्रातॄणां इच्छानुसारेण मातुरंशो दातव्यः समो वा अधिको वा । यदीच्छा नास्ति अल्पविभाज्यराशेरधिकस्य प्राप्तस्य निवृत्त्यर्थत्वात् सममिति पदमित्यनुसन्धेयं । अतः एतत्सर्वमनुसन्धायैव याज्ञवल्क्येन "यदिकुर्यात्समानंशान् पत्न्यः कार्याः समांशिकाः" इत्यभिधाय

'न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ।

इत्यभिहितं । स्त्रीधनं दत्तं चेत्तासां पत्नीनां नांशहरत्वमिति वचनार्थः । अत एवोक्तं चन्द्रिकाकारेण । तेनात्र न मातुस्वत्वव्यवरस्थापको दायविभागः, किं तु यावदर्थमेवार्थहरणमिति