पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३९१

पुटमेतत् सुपुष्टितम्
360
श्रीसरस्वतीविलासे

र्थांशभागिनी सा कर्तव्या । एतदुक्तं भवति-- यदि ब्राह्मणजातीया सा कन्या तदा ब्राह्मणी पुत्रस्य यावानंशो भवति तस्य चतुर्थांशः तस्या भवतीति । तद्यथा-- यदि कस्यचिद्ब्राह्मणी पत्नी' तत्र चैकः पुत्रः कन्या चैका तत्र तत्पित्र्यं सर्वमेव द्रव्यं द्विधा विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयांशं कन्यायै दत्वा शेषं पुत्रो गृह्णीयात् । अथ तु द्वौ पुत्रावेका कन्या; तथाऽपि पितृधनं त्रेधा विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयांशं कन्यायै दत्वा शेषं पुत्रौ विभज्य गृह्णीतः । अथ त्वेकः पुत्रः द्वे कन्ये तदा पितृधनं त्रेधा विभज्य एकं भागं चतुर्धा विभज्य द्वौ भागौ द्वाभ्यां कन्याभ्यां दत्वा शेषमंशं सर्वं पुत्रो गृह्णातीति । एवं समानजातीयेषु समविषिमेषु भ्रातृभगिनीषु योजनीयं । यदा तु ब्राह्मणीपुत्रः एकः क्षत्रिया कन्यैका तत्रापि पित्र्यं द्रव्यं सप्तधा विभज्य क्षत्रियापुत्रभागान् त्रीन् चतुर्धा विभज्य तुरीयांशं क्षत्रियाकन्यायै दत्वा शेषं सर्वं ब्राह्मणीपुत्रो गृह्णाति । यदा तु द्वौ ब्राह्मणपुत्रौ क्षत्रिया कन्यैका तत्र पित्र्यं धनमेकादशधा विभज्य तेषु त्रीनंशान् क्षत्रियापुत्रभागान् चतुर्धा विभज्य चतुर्थांशं क्षत्रियाकन्यायै दत्वा शेषं सर्वं ब्राह्मणी पुत्रौ गृह्णीतः । एवं जातिवैषम्ये भ्रातॄणां भगिनीनां च संख्यायास्साम्ये वैषम्ये च सर्वत्रोह्यम् । नतु 'दत्वांशं तु तुरीयकमिति' तुरीयांशविवक्षया संस्कारमात्रोपयोगि द्रव्यं दत्वेति व्याख्यानं युक्तं । वचनविरोधात् ।

स्वेभ्योंऽशेभ्यस्तु कन्याभ्यस्स्वं दद्युर्भ्रातरः पृथक् ।
स्वात्स्वादंशाच्चतुर्भागं पतितास्स्युरदित्सवः ॥

इति ।