पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३९२

पुटमेतत् सुपुष्टितम्
361
व्यवहारकाण्डः

इति । अस्यार्थः-- ब्राह्मणादयो भ्रातरः ब्राह्मणीप्रभृतिभ्यो भगिनीभ्यः स्वजातिविहितेभ्योंऽशेभ्यः 'चतुरंशान् हरेद्विप्र' इत्यदि वक्ष्यमाणेभ्यस्स्वात्स्वादंशादात्मीयादात्मीयात् भागाच्चतुर्थं-- तुरीयं भागं दद्युः । न च स्वात्मीयभागादुद्धृत्य चतुर्थांशो देय इत्युच्यते किं तु स्वजातिविहितादेकस्मादेशात्पृथक्पृथगेकैकस्यै कन्यायै चतुर्थांशो देय इति । जातिवैषम्ये संख्यावैषम्ये च विभागक्लृप्तिरुक्तैव । "पतितास्स्युरदित्सव" इति अदाने प्रत्यवायश्रवणात् अवश्यदातव्यता प्रतीयते । अत्रापि चतुर्भागवचनमविवक्षितं; संस्कारोपयोगिद्रव्यदानमेव विवक्षितमिति चेन्न; स्मृतिद्वयेऽपि चतुर्थांशदानाविवक्षायां प्रमाणाभावात् । अदाने प्रत्यवायश्रवणाच्चेति । यदपि कैश्चिदुक्तं-- अंशदानविवक्षायां बहुभ्रातृकाया बहुधनत्वं बहुभगिनीकस्य निर्धनता प्राप्नोतीति; तदुक्तरीत्या परिहृतमेव । न ह्यत्रात्मीयाद्भागादुद्धृत्य चतुर्थांशस्य दानमुच्यते; येन तथा स्यात्; तस्मात्पितुरूर्ध्वं कन्याप्यंशभागिनी । पूर्वं तु यत्किञ्चित्पिता ददाति तदेव; विशेषवचनाभावादिति । एतच्च सर्वं असहायमेधातिथि विज्ञानयोगिप्रदीपकारादीनां मतं । एतन्मतं भारुच्यपरार्कप्रभृतयो न मन्यन्ते; पितुरूर्ध्वं जीवति वा पितरि कन्या नांशभागिनी; जीवति पितरि पित्रा स्वेच्छया पुत्रिकाणां यत्किंचिद्दातव्यं । पितर्युपरते भ्रातृभिरप्यनूढानां संस्कारोपयोगि अप्रतिष्टितानां प्रतिष्ठोपयोगि द्रव्यं दातव्यं । न तु ताश्चतुर्थांशहरा इति । चतुर्थांशप्रतिपादकवचनानि तु संस्कारोपयोगि द्रव्यप्रतिपादनपराणिप्रतिष्ठोपयोगिद्रव्यप्रतिपादनपराणि । 'अनूढानामप्रतिष्ठितानामेवांशो दातव्य' इति विष्णुवचने

 S.VILASA.
46